पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
108
[अयोध्याकाण्डः
वरद्वयनिर्बन्धः

 तत्र चापि जाग्रत्याः-त्वज्जीवनाय यतमानायाः, व्यत्ययात्पञ्चमी, मया हे देव ! त्वं समभिरक्षितोऽसीति यत्-तत एव हेतोः मे-मह्यं द्वौ वरौ प्राददाः ॥ १९ ॥

 तौ तु दत्तौ वरौ देव ! [१]निक्षेपौ मृगयाम्यहम् ।
 तवैव पृथिवीपाल ! सकाशे सत्यसङ्गर ! ॥ २० ॥

 त्वया दत्तौ तौ तु मे निक्षेपभूतौ वरौ अद्य उद्धर्तुं मृगयामि-अन्वेषयामि । हे सत्यसङ्गर !॥ २० ॥

 तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
 अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ २१ ॥

 धर्मेण म वरं प्रतिश्रुत्य तद्दास्यासि न चेत् तवैव सकाशे अद्यैव जीवितं प्रहास्यामि ॥ २१ ॥

 [२]वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
 [३][४]प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ २२ ॥

 वागित्यादि । प्रचस्कन्द-स्कन्दिर् गतिशोषणयोः, इह गत्यर्थः । कैकेय्या स्वसुभगत्वनिमित्तकाममोहेन स्ववशे कृतो राजा वाङ्मात्रेण-पूर्वकालीनवरदान प्रतिवचनमात्रेणैव अप्रयासतः सिद्धं पाशं-सत्यपाशं आत्मन इह लोके नाशाय संपन्नं मृग इव प्रचस्कन्द-प्रगतवान् । अन्तर्भावितणित्वाश्रये तु-न्यायत एवं पाशं प्रापितवान् इति पाङ्कोऽर्थः ॥ २२ ॥


  1. तवैव सकाशे निक्षेपभूतौ-ति. गो.
  2. वाङ्मात्रेण-पूर्वदत्तवरस्मारक-वचनमात्रेण स्ववशे कृतः राजा- मृगशब्दानुकारिणा लुब्धककथितेन वाङ्मात्रेण मृग इव बद्धः-गो.
  3. प्रविवेश-ङ.
  4. प्रचस्कन्द-धर्मपाशं गतवान् । यद्वा वागुरां प्राप्तो मृग इव शोषणं प्राप्तः-गो.तत्प्रतिवचनदानरूपं पाशं गतवान्-ति.