पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः]
107
प्रथमेन बरेणाथ भरतो मेऽभिषिच्यताम्

 जगत्-परोक्षस्वर्गादिभुवनं, 'विष्टपं भुवनं जगत्', पृथिवी-प्रत्यक्षभुवनदेवता ॥ १४ ॥

 निशाचराणि भूतानि गृहेषु गृहदेवताः ।
 यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ १५ ॥
 सत्यसन्धो महातेजाः धर्मज्ञः सुसमाहितः ।
 वरं मम ददात्येषः तन्मे शृण्वन्तु देवताः ॥ १६ ॥
 इति देवी महेष्वासं परिगृह्याभिशस्य च ।
 ततः परमुवाचेदं वरदं काममोहितम् ॥ १७ ॥

 इति–उक्तप्रकारेण देवी, महेष्वासं-राजानं,पारगृह्य-परिवर्तनात् स्थिरीकृत्य; अभिशस्य-'सत्यसंन्धः' इत्यादिना स्ववचन-कृतिस्थैर्यायैवाभिशस्य च ॥ १७ ॥

 स्मर राजन् ! पुरावृत्तं तस्मिन् [१]दैवासुरे रणे ।
 तत्र [२]चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥ १८ ॥

 परमुवाचेति किमुवाचेत्यत्राह-स्मरेत्यादि । तत्र च रणे-रात्रियुद्धे, शत्रुः-शंबरः तव [३]जीवितमन्तरा-प्राणं विना त्वां [४]अच्यावयत्-प्रच्युतवीर्यमकरोत् ॥ १८ ॥

 तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
 [५]जाग्रत्या यतमानायाः, ततो मे प्राददा वरौ ॥ १९ ॥


  1. देवासुरे-ङ. च.
  2. त्वां च्यावयत्-ङ. च.
  3. अन्तरा–मध्ये तव जीवितं अच्यावयत्-अचालयत् । मूर्छा प्रापितवानित्यर्थः-गो.
  4. अडभावः आर्ष इति तिलके । गोविन्दराजीये तु 'तत्र स्वच्यावयत्' इति पाठः
  5. 'जाग्रत्या मया यद्यतः त्वं समभिरक्षितः ततः स्वजीवनाय यतमानाया मम'-ति.यतमानायाः-सारथ्ये यत्नं कुर्वाणायाः-गो.