पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
106
[अयोध्याकाण्डः
वरद्वयनिर्बन्धः

 सा तदर्थमना देवी तदभिप्रायमागतम् ।
 निर्माध्यस्थ्यात्प्रहर्षाच्च बभाषे [१]दुर्वचं वचः ॥ ११ ॥

 तदर्थमनाः-तस्मिन्-निजाभिमतेऽर्थे मनः-यस्याः सा तथा, तदभिप्रायं-स्वाभिमतार्थसंपादनाभिप्रायं आगतं-प्राप्तं ज्ञात्वा, दुर्वचमपि वचः निर्माध्यस्थ्यात्-स्वपुत्रपक्षपातात् सर्वथा राज्ञः स्ववशत्वदर्शनजात् हर्षाच्च बभाषे ॥ ११ ॥

 तेन वाक्येन संहृष्टा तमभिप्राय[२]मात्मनः ।
 व्याजहार महाघोरं अभ्यागतमिवान्तकम् ॥ १२ ॥

 तेन वाक्येनेति । त्रिवाचा रामशपथपूर्वकस्ववचनक्रियाप्रतिज्ञावाक्येन संहृष्टा तं-उत्तररूपमात्मनोऽभिप्रायं; अभ्यागतमन्तकमिव घोरं-राज्ञः प्राणहरं व्याजहार-व्याहर्तुं निश्चितवतीति यावत् ॥

 यथाक्रमेण शपसि वरं मम ददासि च ।
 तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः [३]साग्निपुरोगमाः ॥ १३ ॥

 अथ राजप्रतिज्ञायाः, तद्दुष्करघोरार्थविषयतः विपरिवृत्तिशंकया तत्प्रतिज्ञामशेषसाक्षीकरणेन स्थिरीकरोति-यथाक्रमेणेत्यादि । अतिप्रियपुत्रसुकृतादिपरिग्रहक्रमेण शपसि; तत्पूर्वकं वरं मे ददासि च-अभीष्टं दातुं निश्चितवानसि; नात्र संदेहः किल । तदेतत्त्वन्निश्चयं देवादयः शृण्वन्तु ॥ १३ ॥

 चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः ।
 जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥ १४ ॥


  1. दुस्सहं-ङ.
  2. मागतं-ङ.
  3. सेन्द्र-ङ.