पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः]
105
तदद्य देहि राजेन्द्र ! सत्यसन्धो भवान् यदि

 [१]आत्मना वाऽऽत्मजैश्वान्यैः वृणे यं मनुजर्षभम् ।
 तेन रामेण कैकेयि ! शपे ते वचनक्रियाम् ॥ ८ ॥

 आत्मना-आत्मसुकृतेन आत्मजैः-तत्सुकृतपरिपाकैः अन्यैः-सर्वप्राणिसुकृतैश्च यं मनुजर्षभं अभिषेकेन भूष्णुं वृणे, तेनेत्यादि । वचनक्रिया वचनानुष्ठानम् ॥ ८ ॥

 भद्रे ! हृदयमध्येतदनुमृश्योद्धरस्व [२]मे
 एतत्समीक्ष्य कैकेयि ! ब्रूहि यत्साधु मन्यसे ॥ ९ ॥

 हे भद्रे ! यदेतन्मे हृदयं-अभिप्रायः,सर्वथा त्वद्वचन-क्रियाविषयकं तत् अनुमृश्य-विचार्य, त्वदभीष्टकथनेन मामुद्धरस्व-अस्माद्दुःखादुद्धर । अपि च [३]एतन्मदुद्धरणमपि कर्तव्यं ? न वा ? इति च समीक्ष्य-विचार्य, अतः परं यत्साधु मन्यसे तत् ब्रूहि । न हि वैधव्ये ते किञ्चित् सुखमस्ति । अतो मद्दुःखनिवृत्तये त्वदिष्टं ब्रूहि ॥

 बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि ।
 करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ १० ॥

 नात्र सिद्धिशंका कर्तव्येत्याह-बलमित्यादि ॥ १० ॥


  1. आत्मना–स्वेन, अन्यैरात्मजैः पुत्रैरपि यं वृणे, असमं जाने ।सर्वतोऽधिकं प्रियं जान इति यावत्-ति. आत्मना-स्वदेहेन । आत्मजैः भरतादिभिः, अन्यैश्च प्रियबंधुभिश्च मूल्यभूतैरेतैर्य रामं वृणे । सर्वान् परित्यज्यापि राममेव परिगृह्णामीति यावत् ।
    गो. वस्तुतस्तु वधार्ह इतिवत् जीवनाय-जीवनदानायापि–अर्हः – योग्यः इति जीवनार्ह इति स्यात् । न तावन्मात्रं, किन्तु सर्वस्वदानायाप्यर्ह इत्याह—आत्मनेत्यादीति ।
  2. माम्-ङ.
  3. एतत्-वाङ्मनसयोरैकरूप्यम्-गो. एतत् रामस्य मत्प्रियतमत्वं समीक्ष्य यत्साधु मन्यसे तब्रूहि ति.अयमाशयः-भद्रे-त्वयि रामे च विद्यमानं मत्प्रीत्यतिशयं विचिन्त्य मम दुःखमुद्धर' इति प्रार्थितापि कैकेयी न स्वस्वभावं मुमोचेति । तदेतदुच्यते-सा तदर्थमना इत्यादिना । इति ॥