पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
104
[अयोध्याकाण्डः
वरद्वयनिर्बन्धः

 तामुवाच महाराजः कैकेयीमीषदुत्स्मितः ।
 कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम् ॥ ४ ॥

 उत्स्मित इति । अभिप्रेतकरणमीषतकृत्यमित्याशयेनोत्स्मयः । मूर्धजेषु संगृह्योवाचेति । शिरोऽङ्के कृत्वोवाचेति यावत् ॥ ४ ॥

 [१]अवलिप्ते ! न जानासि त्वत्तः प्रियतरो मम ।
 मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ ५ ॥

 अन्यो मनुजो न विद्यत इति न जानासि ? इति योजना ॥ ५ ॥

 तेनाजय्येन मुख्येन राघवेण महात्मना ।
 शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥ ६ ॥

 अजय्येनेति । अशक्यजयेनेत्यर्थः । 'क्षय्यजय्यौ शक्यार्थे 'इति निपातः । ते-तुभ्यम् । शप इति । [२]'शप उपालंभे' इत्यात्मनेपदम् । [३]जीवनार्हेण-मम जीवनसाधनभूतेन । एतेन परमप्रियत्वं प्रकाशितम् ॥ ६ ॥

 यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।
 तेन रामेण कैकेयि ! शपे ते वचनक्रियाम् ॥ ७ ॥

 तदेव परमप्रियत्वं दर्शयति-यमित्यादि ॥ ७ ॥


  1. 'स्त्रीणां मध्ये त्वत्तः, पुंसां मध्ये रामादन्यः' इति योज्यम् । यद्वा-त्वत्तोऽधिकः (रामादन्यः) प्रियतरो नेत्यर्थः । रामेऽस्याः द्वेषमजानत इयमुक्तिः । राम एव
    त्वत्तोऽधिकः प्रिय इत्याशयः-ति. अवलिते-सौभाग्यगर्विते स्त्रीणां मध्ये त्वत्तः प्रियतमा नास्ति, रामादन्यो मनुजः प्रियतमो न विद्यत इति न जानासि?-गो.
  2. 'शप आक्रोशे' इति धातोः स्वरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम् । अकर्तृगेऽपि फले अनेन वार्तिकेन आत्मनेपदं विहितम् ।
  3. जीवनार्हेण-जीवनादपि पूज्येन-गो.