पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः]
103
राजन् ! स्मरसि किं पूर्वे मह्यं दत्तं वरद्वयम्

 समाश्वस्ता-संप्रापितस्वार्थसिद्धिविस्रंभा । भूयः पीडयितुमिति । निजभूशयनादिना पीडितमेव पूर्वम् । नव (४०) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायं अयोध्याकाण्डे दशमः सर्गः



एकादशः सर्गः
[वरद्वयनिर्बन्धः]

 तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
 उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ १॥
 नास्मि विप्रकृता देव ! केनचि[१]न्नावमानिता ।
 अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ २ ॥

 अथ 'व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरं" इति मन्थरोपदेशानुष्ठानम् । [२]विप्रकृता-अभिभूता । मे कश्चिदभिप्रायः- अभिप्रार्थनीयोऽस्ति त्वदेकसंपाद्यः; तं त्वया कृतं-संपादितं कर्तुं, इच्छामि ॥ २ ॥

 प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ।
 अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥ ३ ॥

 यदि त्वं तं कर्तुमिच्छसि, तदा प्रतिज्ञां-अवश्यकर्तव्य-विषयिणीं प्रतिजानीष्व यदि; संप्रश्ने लोट्, अथ-अनन्तरं यन्मयाभिप्रार्थितं तद्व्याहरिष्यामि ॥ ३ ॥


  1. न्न विमानिता- ङ.
  2. विप्रकृता-रोगग्रस्ता-गो. विप्रकृता-अपकृता ।