पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
102
[अयोध्याकाण्डः
कैकेय्यनुनयः

 [१]बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ ३५ ॥
 करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।

 आत्मनि-मयि बलं-दुष्करस्यापि सम्पादनसामर्थ्यं शङ्कितुं-न सिध्यति ? वा ? इति शङ्कां कर्तुम् ॥ ३५ ॥

 [२]यावदावर्तते चक्रं तावती मे वसुन्धरा ॥ ३६ ॥
 [३]प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।

 तदेव सामर्थ्यं दर्शयति-यावदावर्तत इति । चक्रं-भूचक्रम् ॥ ३६ ॥

 वङ्गाङ्गमागधा मत्स्याः समृद्धाः काशिकोसलाः ॥ ३७ ॥
 तत्र जातं बहु द्रव्यं धनधान्यमजाविकम् ।
 ततो वृणीष्व कैकेयि ! यद्यत्त्वं मनसेच्छसि ॥ ३८ ॥
 किमायासेन ते भीरु ! उत्तिष्ठोत्तिष्ठ शोभने ।
 तत्त्वं मे ब्रूहि कैकेयि ! यतस्ते भयमागतम् ॥ ३९ ॥
 तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ।
 तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ॥ ४० ॥
 परिपीडयितुं भूयो भर्तारमुचक्रमे ॥

इत्यर्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे दशमः सर्गः



  1. बलमिति। आत्मनि-स्वस्मिन्, बलं-मस्प्रेमरूपं जानन्ती 'अयं मदुक्तं करिष्यति न वा ?' इति मां शंकितुं नार्हसि ॥ ति. आत्मनि बलं-त्वयि विद्यमानं वाल्लभ्यबलं-गो.
  2. चक्रं सूर्यस्य रथचक्रं-आज्ञा वा। गो. चक्रं सूर्यमण्डलं, आवर्तते प्रकाशयति-ति
  3. 'द्राविडाः सिन्धुसौवीराः' इति पाठान्तरम् । ङ. च.