पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः]
101
अनुनीता च सा राज्ञा वाक्यं दारुणमब्रवीत्

 कुशलाः-सर्वव्याधिनिवारणकुशलाः । अभितुष्टाः-मदीय-सत्कारैरिति शेषः । सर्वशः-सर्वप्रकारेण । व्याधिमाचक्ष्वेति । व्याधि-प्रयुक्तं चेच्छयनमिति शेषः ॥ ३० ॥

 [१]कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ॥ ३१ ॥

 शयनहेतुपक्षान्तरोपन्यासः-कस्य वेत्यादि ॥ ३१ ॥

 कः प्रियं लभतामद्य को वा सुमहदप्रियम् ।
 [२]मा रोदीर्मा च कार्षीस्त्वं देवि ! संपरिशोषणम् ॥ ३२॥

 पक्षद्वयनिमित्तोऽपि क्रोधो मास्त्वित्याह-कः प्रियमित्यादि । त्वत्प्रियो दरिद्र इति शेषः । तथा सुमहदप्रियं लभतां-त्वद्विप्रिय-कारीति शेषः । परिशोषणं-कायक्लेशम् ॥ ३२ ॥

 अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् ।
 दरिद्रः को भवेदाढ्यो द्रव्यवान् वाऽप्यकिञ्चनः ॥ ३३ ॥
 अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
 न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ ३४ ॥
 आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।

 आत्मनो जीवितेनापि [३]निर्जीवनेनापि हेतुना त्वत्प्रियं व्याहन्तुं नोत्सहे ॥ ३४ ॥


  1. क्रोधपक्षे परिहारमाह-कस्य वेति । कस्येति तृतीयार्थे षष्ठी । केन वा तेऽप्रियं कृतमित्यर्थः । प्रियाप्रियकारिणो फलमाह-कः प्रियमिति-गो.
  2. मा रौत्सीः-आत्मनोऽभिप्रायं रुद्धं-गुप्तं मा कार्षी-ति.
  3. इदं पदं क.पुस्तके नास्ति.