पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
100
[अयोध्याकाण्डः
कैकेय्यनुनयः

 [१]परिमृश्य च पाणिभ्यां अभिसंत्रस्तचेतनः ।
 कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २७ ॥

 किं वदिष्यति ? किं करिष्यति ? इत्यभिसंत्रस्ता चेतनाधीर्यस्य स तथा ॥ २७ ॥

 न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।
 देवि ! केनाभि[२]युक्ताऽसि केन वाऽस्यवमानिता ॥ २८ ॥
 यदिदं मम दुःखाय शेषे कल्याणि ! पांसुषु ।

 क्रोधं-क्रोधकारणम् । आत्मनि-मयि । अभियुक्ता-कृताभि-योगा । [३]अभियोगः-पराभवः । अवमानं-निन्दा मम दुःख-संपादनाय शेष इति यदिदमस्ति, अतः केनाभियुक्तेत्यादि योजना ॥ २८ ॥

 भूमौ शेषे किमर्थं त्वं मयि [४][५]कल्याणचेतसि ॥ २९ ॥
 भूतोपहतचित्तेव मम चित्तप्रमाथिनी ।

 कल्याणचेतसीति । 'अनपकारिणि' इति यावत्। भूतोपहतचित्तेव-ग्रहाभिविष्टेव ॥ २९ ॥

 सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ ३० ॥
 सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि !


  1. परिमृज्य-ङ.
  2. शप्ताऽसि ङ.
  3. अभिशप्ता-परुषिता-गो. 'अभियोगः-कलहाह्वानं' इति सुधा। अभियुक्ता-कलहाय आहूता हठादित्यर्थः ॥
  4. कल्याणि ! जीवति-ङ.
  5. 'मयि कल्याणचेतसि सति' इति सतिसप्तमी । 'मयि निरपराधे सति किमर्थं मम दुःखाय पांसुषु शेषे' इत्यर्थः ॥