पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः]
99
भूमौ शयानां कैकेयीमपश्यत् तत्र पार्थिवः

 भूयः-अभ्यधिकं विषसादेति । अदर्शनमात्रेण प्रथमं प्राप्त-विषादस्य क्रोधागारप्रवेशश्रवणाद्विषादाधिक्यम् । लुलितत्वं चक्षुरादेरिन्द्रियस्य । व्याकुलितत्वमान्तरेन्द्रियस्य । इष्टाया अदर्शनजो विषादश्चक्षुरादेः । चित्तस्य तु, किन्निमित्तजः क्रोध इति [१]शोकाकुलितत्वम् ॥ २१ ॥

 तत्र तां पतितां भूमौ शयानामतथोचिताम् ॥ २२ ॥
 प्रतप्त इव दुःखेन सोऽपश्यञ्जगतीपतिः ।

 अतथोचिताम्-तथाशयनानुचितामिति यावत् ॥ २२ ॥

 [२]स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥
 अपापः पापसङ्कल्पां ददर्श धरणीतले ।
 लतामिव विनिष्कृत्तां पतितां देवतामिव ॥ २४ ॥
 किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।

 विनिष्कृत्तां-छिन्नाम्, सुडार्षः । निर्धूताम्-धूञ् कम्पने, पतितामिति यावत् ॥ २४ ॥

 [३]मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥ २५ ॥
 करेणुमिव दिग्धेन विद्धां [४]मृगयुना वने ।
 [५]महागज इवारण्ये स्नेहात् [६]परिममर्श ताम् ॥ २६ ॥
 संवताम्-बद्धाम् । दिग्धेन-विषलिप्तबाणेन ॥ २६ ॥


  1. शंकाकुलितत्वम्-ग.
  2. रामाभिषेकसंरंभे सपत्नीमातुः क्रोधरतन्निमित्त एवेत्यपि कुतो राजा न ज्ञातवानित्यत्राह-स वृद्ध इत्यादि । अकुटिलत्वात् व्यामोहाच्च न ज्ञातवानिति भावः-गो.
  3. बामीमिव-ङ.
  4. मृगयुना-व्याधेन-गो.
  5. महागज इति । करेणुमित्यनृषज्यते ।
  6. परमदुःखिताम्-ङ.