पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
98
[अयोध्याकाण्डः
कैकेय्यनुनयः

 तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ १६ ॥
 न ददर्श प्रियां भार्यां कैकेयीं शयनोत्तमे ।
 [१]स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥ १७ ॥
 अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।

 कामबलं-काममोहबलं तत्संयुक्तस्तथा । अत एव रत्यर्थमन्विष्य दयितां अपश्यन् पप्रच्छ, विषसाद चेति ॥ १७ ॥

 [२]न हि तस्य पुरा देवी तां वेलामत्यवर्तत ॥ १८ ॥
 न च राजा गृहं शून्यं प्रविवेश कदाचन ।

 तां वेलामिति । कामवशात् स्वशयनागमनवेलामिति यावत् ॥

 ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ १९ ॥
 यथापुरमविज्ञाय स्वार्थलिप्सुम[३]पण्डिताम् ।

 अपण्डितां कैकेयीं स्वार्थलिप्सुमविज्ञाय, यथापुरं-अनतिक्रमेऽव्ययम्, “अव्ययीभावश्च” इति नपुंसकत्वाद्ध्रस्वत्वम्, यथा-पूर्वं-यथा अदर्शनकाले पृच्छति तथा प्रतीहारीं पृच्छति स्म ।

 प्रतीहारी त्वथोवाच संत्रस्ता सुकृताञ्जलिः ॥ २० ॥
 देव ! देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ।
 प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥ २१ ॥
 विषसाद पुनर्भूयो [४]लुलितव्याकुलेन्द्रियः ।


  1. उद्दीपनदर्शनादुचितकालत्वाच्च कामबलसंयुक्तः-गो.
  2. विषादहेतुमाह-न.
  3. अपण्डितां कार्याकार्यविवेकरहितां-ति. स्वव्यापारस्य कीदृशं फलं स्यादिति विवेकशून्यामिति यावत् ।
  4. लुलितानि-धूर्णितानि, व्याकुलानि-स्वविषयग्रहणासमर्थानि- गो.