पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः]
97
न्यवेदयत् प्रतीहारी राज्ञे क्रुद्धां तु कैकयीम्

 आ समन्तात् काशमानं पाण्डराभ्रं-श्वेताभ्रमिव, राहुमुक्तो निशाकर इव च भासमानम् । अभ्यां सुधाधावल्याह्लादकत्वं ख्यापितम् ॥ ११ ॥

 [१]शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम् ॥ १२ ॥
 वादित्ररवसंङ्घुष्टं कुब्जा[२]वामनकायुतम् ।

 आयुतं-अत्यन्तसम्पृक्तम् । कुब्जाभिः वामनकैश्च आयुतं तथा ॥ १२ ॥

 लतागृहैश्चित्रगृहैः चंपकाशोकशोभितैः ॥ १३ ॥
 दान्तराजतसौवर्णवेदिकाभिः समायुतम् ।
 [३]नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥ १४ ॥
 दान्तराजतसौवर्णैः संवृतं परमासनैः ।
 विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ १५ ॥
 [४]उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम् ।

 दन्तादिविकाराः वेदिकास्तथा । नित्यपुष्पादिमत्वं वृक्षाणां-दशरथस्य देवसाह्यकृन्महाराजत्वात्, स्वर्गादेवानतिदिव्यवृक्षत्वात् तदपि संभाव्यं, कृष्णपारिजातानयनवत् ॥ १५ ॥


  1. अथ दशरथस्य कैकेयीवचनकर्तव्यत्वाय रामाभिषेकविघ्नमियं करिष्यतीति बुद्ध्यनुत्पादाय च रतिभावोद्दीपनान्यन्तःपुरे दर्शयति-शुकेत्यादि । संघुष्टं अनुनादितम्-गो.
  2. वामनिका-ङ
  3. नित्यपुष्पफलैरिति-वृक्षाणां नित्यपुष्पफलत्वं च देवराज-साहाय्यकरणेन तत्प्रसादात्-ति. नित्यपुष्पफलैरिति । दोहदविशेषादिति ज्ञेयम्- गो.
  4. एतदनन्तरं 'विवेशान्तः पुरं राजा सिंहो गिरिगुहामिव '
    इत्यधिकं-ङ.