पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
96
[अयोध्याकाण्डः
कैकेय्यनुनयः

 एवं राज्याभिषेकदिवसात् पूर्वरात्रिप्रदोषवर्तिकैकेयीवृत्तान्तमुपवर्ण्य तत्रत्यं राजवृत्तान्तं वर्णयितुमुपक्रमते-आज्ञाप्येत्यादिना । अभिषेचनमिति । श्वोऽभिषेचनं यदाज्ञापनीयं–तत्सर्वमिति शेषः । उपस्थानमिति । [१]कृतप्रस्थापनमन्त्रिपुरोहितादेः-[२]तत्कालं स्वस्वगृहं प्रत्यु[३]पस्थापनं गमनं-अनुज्ञाप्य स्वनिवेशनं प्रविवेश ॥ ९ ॥

 अद्य रामाभिषेको वै [४]प्रसिद्ध इति जज्ञिवान् ॥ १० ॥
 [५]प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी ।

 अद्येति-श्वः सन्निहितो रामाभिषेककालः परामृश्यते । एव रामाभिषेकः प्रसिद्धः-सर्वथा निश्चित इति जज्ञिवान् । अत [६]एव निश्चितप्रियार्हां-कैकेयीं प्रति तत्प्रियमाख्यातुं अन्तःपुरं प्रविवेश । [७]वशीति स्वस्त्रीव्यतिरिक्तविषये ॥ १० ॥

 स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥ ११ ॥
 [८]पाण्डराभ्रमिवा[९]काशं राहुमुक्तो निशाकरः ।


  1. कृताज्ञापनमन्त्रि-क
  2. तावत्कालं-ग.
  3. उपस्थानं-आस्थानं–सद इत्यर्थः-गो. ति. यद्वा पञ्चमसर्गे 'वसिष्ठेनाभ्यनुज्ञातः' इत्युक्तत्वात् वसिष्ठ एवोपस्थामशब्देनोच्यते-गो. अथवा वसिष्ठात् स्वोपस्थानमनुज्ञाप्य-स्वस्थानीय वसिष्ठानुमतिं प्राप्येति यावत् ।
  4. प्रसिद्ध इति । अद्यैव रामाभिषेकः प्रसिद्धः ; इतः पूर्वे कैकेय्याः श्रोतुमवकाशो नास्तीति तस्या आख्यातुं जगाम-गो.
  5. प्रियायै-ङ.
  6. निश्चितस्य रामाभिषेकस्य कथनाय अर्हामित्यर्थः ।
  7. बशीति । वशः-इच्छा कामः-वशकान्तौ भावे अप्'- वशिरण्योरुपसंख्यानं' स अस्यास्तीति वशीकामी ; 'सकामबलसंयुक्तः इत्युत्तरानुसारात् ।
  8. 'पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकरः' इत्येव बहुषु पाठः । 'अत्र गृहस्य रुष्टकैकेयीयुक्ततया सुधाधवलतया च राहुयुक्तपाण्डराभ्रकाशसादृश्यं'-ति. 'स्वबाधककैकेयी युक्तत्वाद्राहुयुक्तमित्युक्तं'–गो. राहुश्चन्द्रमसमिव कैकेयी राजानं ग्रसिष्यतीति सूच्यते ॥
  9. काशे-ङ