पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः]
95
ततो विवेश तद्वेश्म हृष्टो दशरथः स्वयम्

 सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥ ४ ॥
 बभूव परमप्रीता [१]सिद्धिं प्राप्येव मन्थरा ।

 यदेवमुवाच, अतः सा तन्निशम्य परमप्रीता बभूव । सिद्धिः-रस[२]साधनादिसिद्धिः ॥ ४ ॥

 अथ साऽमर्पिता देवी सम्यक्कृत्वा विनिश्चयम् ॥ ५ ॥
 संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे ।

 भ्रुकुटी-क्रोधजो मुखविकारविशेषः ॥ ५ ॥

 ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ ६ ॥
 अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।
 तया तान्यपविद्धानि माल्यान्याभरणानि च ॥ ७ ॥
 अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।

 कैकेय्या अपविद्धानि-उत्सृष्टानि, यान्यपविद्धानि तानीति योजना ॥ ७ ॥

 क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥ ८ ॥
 एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी ।

 गतसत्त्वा-क्षीणबला ॥ ८ ॥

 आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ॥ ९ ॥
 उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ।


  1. सिद्धिं-निश्चयफलम्-गो.
  2. रसायनादिसिद्धिः-क.