पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
94
[अयोध्याकाण्डः
कैकेय्यनुनयः
दशमः सर्गः
[कैकेय्यनुनयः]

 विदर्शिता यदा देवी कुब्जया पापया भृशम् ।
 तदा शेते स्म सा भूमौ [१]दिग्धविद्धेव किन्नरी ॥ १ ॥

 अथ उक्तक्रोधानुवादपूर्वं राज्ञः कैकेयीदर्शनतदनुनयप्रतिपादनम्-विदर्शितेत्यादि । विपरीतं बोधिता । दिग्धा-विषलिप्ता,विद्धा-कृतशस्त्रादिवेधा, दिग्धा चासौ विद्धा च दिग्धविद्धा, मयूरव्यंसकादित्वात्समासः । किन्नरी-कामभोगप्रधानदिव्यरूपदेवजातिविशेषः ॥

 निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी ।
 मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २ ॥

 निश्चित्येत्यादि । सा मन्थरोक्तं कृत्यं सम्यगिति निश्चित्य मन्थरायै वचसा च "त्वदुक्तमेव हितम्" इत्याचचक्ष इत्यर्थः ॥ २ ॥

 सा [२]दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।
 नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ॥ ३ ॥
 [३]मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।

 अस्यैव प्रपञ्चनं-सा दीनेत्यादि । मार्गं-मन्थरोक्तमार्गं आत्मसुखावहामिति मुहूर्तं मनसा चिन्तयामास । वाचा च तदोवाच । मन्थराया इति शेषः ॥ ३ ॥


  1. दिग्धविद्धा-विषदिग्धबाणविद्धा-ति. गो. 'विषाक्ते दिग्धलिप्तकौ' इत्यमरः । कतककारोऽपि अत्रैव २६ श्लोके एवमेव व्याचख्यौ ।
  2. दीना-देववञ्चिता स्वानर्थमपि न जानातीति ।
  3. 'सा दीना निश्चयं कृत्वा' इत्यारभ्य एतत्पर्यन्तं पादत्रयं
    "निश्चित्य मनसा कृत्यं..... आचचक्षे विचक्षणा" ॥२॥ इति श्लोकात्पूर्वे निवेशनीयम् । तच्छलोक "आचचक्षे " इति स्थितेः । उत्तरश्लोके 'निशम्य' इति स्थितेश्च-गो.