पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
मेदिनीमधिशिश्ये सा दुःखिता कुपिता भृशम्

 वनं गते वा सुचिराय राघवे
  समृद्धकामो भरतो भविष्यति ॥ ६३ ॥

 निशाम्य-दृष्ट्वा ॥ ६३ ॥

 अहं हि नैवास्तरणानि न स्रजो
  न चन्दनं नाञ्जनपानभोजनम् ।
 न किञ्चिदिच्छामि न चेह जीवितं
  न चेदितो गच्छति राघवो वनम् ॥ ६४ ॥

 अथैतदुक्त्वा वचनं सुदारुणं
  निधाय सर्वाभरणानि भामिनी ।
 असंवृतामास्तरणेन मेदिनीं
  तदाऽधिशिश्ये पतितेव किन्नरी ॥ ६५ ॥

 मेदिनीमधिशिश्य इति । “अधिशीङ्” इत्यादिना कर्मत्वम् ॥

 उदीर्णसंरंभतमोवृतानना
  तथावमुक्तोत्तममाल्यभूषणा ।
 नरेन्द्रपत्नी विमना बभुव सा
  तमोवृता द्यौरिव मग्नतारका ॥ ६६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे नवमः सर्गः

 उदीर्णः-उत्कटः; संरंभः-कोप एव तमः; तेन वृतं-व्याप्तं आननं यस्याः सा तथा । वर्ष (६६) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे नवमः सर्गः