पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
92
[अयोध्याकाण्डः
रामप्रवासनाध्यवसायः

 अथो पुनस्तां महिषीं महीक्षितः
  वचोभिरत्यर्थमहापराक्रमैः
 उवाच कुब्जा भरतस्य मातरं
  हितं वचो [१]राममुपेत्य चाहितम् ॥ ६० ॥

 एवं कैकेय्या निश्चयमेव स्थिरीकरोति कुब्जा-अथो पुनरित्यादि ॥ ६० ॥

 प्रपत्स्यते राज्यमिदं हि राघवः
  यदि ध्रुवं त्वं ससुता च तप्यसे ।
 अतो हि कल्याणि ! यतत्व तत्तथा
  यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ ६१ ॥
 [२]तथातिविद्धा महिषी तु कुब्जया
  समाहता वागिषुभिर्युहुर्मुहुः ।
 निधाय हस्तौ हृदयेऽतिविस्मिता
  शशंस कुब्जां कुपिता पुनः पुनः ॥ ६२ ॥

 अतिविद्धा-कृतवेधा । अतिविस्मितेति । अतिसक्तो राजा कथं मदनिष्टं करोतीति विस्मयः ॥ ६२ ॥

 [३]यमस्य वा मां विषयं गतामितो
 निशाम्य कुब्जे ! प्रतिवेदयिष्यसि ।


  1. राममुद्दिश्येस्यर्थः-गो.
  2. 'अतिविद्धा-अतिदुःखिता' गो. (समाहता इति
    पृथक् सत्वादिति आशयः) निधाय हस्तौ हृदये इति स्त्रीस्वभावोक्तिः ।
  3. यमस्य विषयं-देशं गतामित्यन्वयः ।