पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
91
एवं विदर्शिताऽगृह्णात् कैकेयी मन्थरावचः

 तथा प्रोत्साहिता देवी गत्वा मन्थरया सह ।
 क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ ५५ ॥
 अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।
 अवमुच्य वरार्हाणि शुभान्याभरणानि च ॥ ५६ ॥
 ततो हेमोपमा तत्र कुब्जावाक्यवशं गता ।
 संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ ५७ ॥

 अनेकशतसाहस्रं-बहुमूल्यमिति यावत् । शतमानविंशतिक-"इत्यादिना क्रीतार्थे अण् । "परिमाणान्तस्यासंज्ञा-शाणयोः" इत्युत्तरपदवृद्धिः । [१]हेमोपमा-अकल्मषस्वर्णवर्णा ॥ ५७ ॥

 इह वा मां मृतां कुब्जे ! [२]नृपायावेदयिष्यसि ।
 वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ ५८ ॥

 कैकेयी स्वकार्यसाधनदार्ढ्यं चाञ्चल्यशङ्काभीतायै मन्थरायै प्रकटयति-इह वेत्यादिना । इह-क्रोधागार एव मदभीष्टासिद्धौ मदुपेक्षकाय नृपाय मां मृतामावेदयिष्यसि । यदि मे सान्त्वनं; तदा राघवे वनं प्राप्ते भरतः क्षितिं प्राप्स्यति । न तु पक्षान्तरमित्यर्थः ॥ ५८ ॥

 न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भोजनैः ।
 एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ५९ ॥


  1. न केवलं शरीरसौन्दर्यमात्रेण तस्याः सुवर्णसादृश्यं, किन्तु सर्वोशेऽपि विमलं हि तदीयं मनो यत्किमपि संस्थानमापादयितुं शक्यं सुवर्णवदेवेति भावः ।
  2. राज्ञः स्वतोऽनागमने तदानयनार्थे वा एवमुक्तिः । ६३ श्लोकस्वारस्यात् ।