पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
90
[अयोध्याकाण्डः
रामप्रवासनाध्यवसायः

 चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना ।
 [१]गमिष्यसि गतिं मुख्यां[२] [३]गर्वयन्ती [४]द्विषज्जने ॥ ५१ ॥

 आह्वयमानेनेति । 'स्पर्धायामाङः' इति शानच् । द्विषज्जनविषये मुख्यां गतिं-श्रैष्ठ्यगतिमिति यावत् । गर्वयन्ती । मामकविशेषपरिग्रहजं स्थाने पातितं गर्वं कुर्वन्ती-गर्वशब्दात् तत्करोतीति प्यन्तात् शत्रादि ॥ ५१ ॥

 तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।
 पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ ५२ ॥

 कुब्जायास्तवापि कुब्जाः-दास्य इति यावत् ॥ ५२ ॥

 इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
 शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ ५३ ॥

 वेद्यां-उत्तरवेद्याम् ॥ ५३ ॥

 गतोदके सेतुबन्धो न कल्याणि ! विधीयते ।
 उत्तिष्ठ कुरु कल्याणि ! राजानमनुदर्शय ॥ ५४ ॥

 एवं वृथाजल्पैः कालात्ययो मास्त्विति त्वरयति-गतेत्यादिना । अभिषेके श्वो निर्वृत्ते पश्चाद्वरग्रहादिरभिमतातिरिक्तविषयत्वाद्व्यर्थः । यदेवं, अतः-उत्तिष्ठेत्यादि । [५]अनुदर्शयेति । क्रोधागारमिति शेषः ॥ ५४ ॥


  1. गतिं-पादविन्यासविशेषं गमिष्यसि-करिष्यसि, ओदनपाकं पञ्चतीतिवनिर्देशः-गो.
  2. द्विषज्जनं-मत्सपत्नीजनं प्रति गर्वयन्ती-गो.
  3. गर्हयन्ती-ङ.
  4. द्विषब्जनम्-ङ
  5. "राजानमनुदर्शय । क्रोधागारे । आत्मानमिति शेषः ति". राजानमनुदर्शय । क्रोधागारमिति शेषः । यद्वा-अनुदर्शय प्रतीक्षस्वेत्यर्थः" गो.