पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
89
आत्मानं भरतं चैव रक्षस्व महतो भयात्

 एवं स्थगुव्यतिरिक्तानां स्वत एवादोषत्वमुक्त्वा स्थग्वपि सद्गुण-मूलमित्युत्प्रेक्षया स्तौति-आसन् या इत्यादि । या माया निविष्टा हृदये-तदेव ते हृदयस्थस्थग्वित्युत्तरत्र योजना । अत्र विधेयलिङ्ग-ग्रहस्तदिति सर्वनाम्ना । अन्याः मायाः-लौकिक्यः ॥ ४५ ॥

 तदेव [१]स्थगु यद्दीर्घं रथघोणमिवायतम् ॥ ४६ ॥
 मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।

 रथघोणं-रथचक्रपिण्डिका, तद्वदायतं दीर्घं च-यत् स्थगु-मांसावशेषोऽस्ति, अत्र मत्यादिकं वसति ॥ ४६ ॥

 अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे ! हिरण्मयीम् ॥ ४७ ॥
 अभिषिक्ते च भरते रायवे च वनं गते ।

 यदेवं अतः-अत्र त इत्यादि ॥ ४७ ॥

 जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि ! ॥ ४८ ॥
 लब्धार्था च प्रतीता च [२]लेपयिष्यामि ते स्थगु ।

 जात्येनेति । उत्तमस्वर्णजातौ भव जात्यम्, दिगादित्वाद्यत् । जाम्बूनदत्वादिप्रशस्तजातिमता सुनिष्टप्तेन सुद्रुतेन सुवर्णेन निर्मितां हिरण्मयीं मालामिति संबन्धः । अपि च ते स्थगु लेपयिष्यामि-जात्येन,चन्दनेनेति शेषः ॥ ४८ ॥

 मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥ ४९ ॥
 कारयिष्यामि ते कुब्जे ! शुभान्याभरणानि च ।
 परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ ५० ॥


  1. स्थगु-उरोनिस्सृतोन्नतविकृतावयवविशेषः-गो. उरसः पृष्ठभागे निस्सृतेत्यर्थः ।
  2. स्वर्णखचितं करोमीति लोकोतबा कथ्यते ।