पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
88
[अयोध्याकाण्डः
रामप्रवासनाध्यवसायः

 उरस्तेऽभिनिविष्टं वै यावत्स्कन्धं समुन्नतं ॥ ४१ ॥
 अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।

 उरः-स्तनयोर्बहिः हृदयादुपरिप्रदेशः । तत् स्थगुनाभिनिविष्टम् । अत एव यावत्स्कन्धात्समुन्नतत्वमुरसः । एतेन पुरःस्थगुमत्कुब्जत्वं प्रतिपादितम् । शातं-कृशं 'शाच्छोरन्यतरस्यां' इति पाक्षिक इत्वाभावः श्यतेः निष्ठायाम् । सुनाभं-शोभना नाभिर्यस्योदरस्य, तत्तथा । 'अच्' इति योगविभागात् अच् । लज्जितमिवेति । [१]स्थगोरधस्थाद्वर्तनजया लज्जया लज्जितमिव शातमिति योजना ॥

 परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥ ४२ ॥
 विमलेन्दुसमं वक्त्रं अहो राजसि मन्थरे !
 जघनं तव [२][३]निर्मृष्टं रशनादामशोभितम् ॥ ४३ ॥
 जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ।

 निर्मृष्टं-शोधितम् । रोमादिकश्मलहीनमितियावत् । [४]उपन्यस्त इति । जान्वेरिति शेषः ॥ ४३ ॥

 त्वमायताभ्यां सक्थिभ्यां मन्थरे ! क्षौमवासिनी ॥ ४४ ॥
 अग्रतो मम गच्छन्ती राजहंसीव राजसे ।

 सक्तिभ्यां-पृष्ठफलकाभ्याम् ॥ ४४ ॥

 आसन् याः शम्बरे मायाः सहस्रमसुराधिपे ॥ ४५ ॥
 सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।


  1. उरस उन्नति दृष्टा लज्जितमिवेति—तिलके गोविन्दराजीये च
  2. निर्धुष्टं-च.
  3. निर्धुष्टं रशनाक्षुद्रघण्टादिभिः शब्दायमानम्-ति. निर्मृष्टं-अमांसलं.
  4. संश्लिष्ट इति यावत् ।