पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
87
अपरेण च याचस्व भरतस्याभिषेचनम्

 कुब्जे ! त्वां [१]नावजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ॥
 पृथिव्यामसि कुब्जानामुत्तमा [२].बुद्धिनिश्चये ।

 अथोपदिष्टकार्यपारप्राप्तये तामेव कुब्जां मानयति-कुब्जेत्या-दिना । नावजानामीत्यत्र हेतुः-श्रेष्ठाभिधायिनीति । कुब्जानां-कुब्जत्वधर्मविशिष्टराज । [३]भुजिष्यानां मध्ये । कुब्जत्वादिकिञ्चिद्विकृता एव राजमहिषीणां दास्य इष्टाः; सुरूपासु खलु सापत्न्यस्फूर्तिर्भवति ॥ ३८ ॥

 त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥ ३९ ॥
 नाहं समवबुध्येयं कुब्जे ! राज्ञश्चिकीर्षितम् ।

 त्वमेवेति । न तु दास्यन्तरम् । नावबुध्येयामिति । त्वद्बोधनाभाव इति शेषः ॥ ३९ ॥

 सन्ति दुस्संस्थिताः कुब्जा वक्राः [४]परमपापिकाः ॥ ४० ॥
 [५]त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।

 स्वां कुब्जां कुब्जत्वांशव्यतिरेकेण सुस्त्रीलक्षणवतीमालक्ष्य स्तौति-सन्तीत्यादि । दुस्संस्थिताः-कुत्सितावयवसन्निवेशाः । त्वद्व्यतिरिक्ता इति शेषः अत एव परमपापिकाः-पापदर्शनाः । कश्मलदर्शना इति यावत् । नैवं त्वमित्याह-स्वामित्यादि । वातेन पद्ममिव केवला [६]सन्नता; अथापि प्रियदर्शना ॥ ४० ॥


  1. नाभिजानामि-ङ
  2. अनेन कुब्जानां प्रायेण बुद्धितैक्ष्ण्यमस्तीति द्योतितम्-गो
  3. भुजिष्या-परिचारिका ।नियोज्यर्किङ्करप्रेष्यभुजिष्यपरिचारकाः इत्यमरः ।
  4. परमदारुणाः-ङ.
  5. वातेन-वायुना सन्नतं-सम्यक् नामितं पद्ममिव स्वं वातेन रोगेण सन्नता सती प्रियदर्शना ।
  6. सम्यक्,नता इत्यर्थः