पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
86
[अयोध्याकाण्डः
रामप्रवासनाध्यवसायः

 सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।

 अन्तर्बहिरिति । प्रकृतीनामितिशेषः। 'स्नेहः प्रवासाश्रयः' इति न्यायेन प्रजानां तद्गतस्नेहः चिरविप्रयोगतो नश्यतीत्यर्थः । कृतमूलत्वस्यैव विवरणं-संगृहीतेत्यादि । सम्यक् परिपालनेन सङ्गृहीताः-अनुरञ्जिताः मनुष्याः-पौरा जानपदाश्च येन स तथा । तत्र हेतुः-आत्मवानित्यादिः ॥ ३४ ॥

 प्राप्तकालन्तु ते मन्ये राजानं [१]वीतसाध्वसा ॥ ३५ ॥
 रामाभिषेक[२]संभारान्निगृह्य विनिवर्तय ।

 उपदिष्टमुपदेशं निगमयति-प्राप्तेत्यादि । राजानं प्रति वीतसाध्वसा सती विनिवर्तय इति ! वरबलादिति शेषः ॥ ३५ ॥

 अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥ ३६ ॥
 हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।
 सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ॥ ३७॥
 कैकेयी विस्मयं प्राप्ता परं परमदर्शना ।

 एवं स्थिते कविः स्वदृशाऽऽह-अनर्थमित्यादि । प्रतीता-इण् गतौ । सर्वे गत्यर्था ज्ञानार्थाः । तदुक्तं हिततया प्रतिगृहीतवतीति यावत् । परमदर्शनेत्यन्तविशेषणवती सा कैकेयी मन्थरामिदमब्रवीदिति योजना । [३]किशोरी-बालबडबा ॥ २७ ॥


  1. कैकेयीविशेषणमिदं ।
  2. सकल्प्या-ङ.
  3. 'बालः किशोरः' इत्यमरः ।