पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
85
रामप्रव्राजनं देवि ! याचस्वाद्येन चैतयोः

 चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् ।
 रूढश्च [१]कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ ३१ ॥

 [२]प्रव्राजनस्य चतुर्दशसंख्यावैशिष्ट्यवरणमात्रेण कार्यासिद्धिर्भवत्येव । सर्वथा प्रव्राजनन्त्वतिघोरतया, अशेषलोकविरुद्धमित्याशयेनाह-चतुर्दश हीत्यादि । यथा महावृक्षः चतुर्दशवर्षं परिपालितः प्ररूढमहाशाखः कृतमूलः, सिद्धदृढमूलावरोहश्च भवति; एवं प्रतिष्ठिताशेषबाह्याभ्यन्तरराज्यपरिकरः [३]भवति । अतः परं, शेषं-यावज्जीवं वृक्षवदेव स्वत एवाशक्योन्मूलनश्च भवतीत्यर्थः ॥ ३१ ॥

 रामप्रव्राजनं चैव देवि ! याचस्व तं वरम् ।
 एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ! ॥ ३२ ॥

 यदेवं अतः-रामेत्यादि । चाद्भरताभिषेकः ॥ ३२ ॥

 एवं प्रव्राजितश्चैव [४]रामोऽरामो भविष्यति ।
 भरतश्च हतामित्रः [५] तव राजा भविष्यति ॥ ३३ ॥

 अराम इति । अप्रियो भविष्यतीत्यर्थः ॥ ३३ ॥

 येन कालेन रामश्च वनात् प्रत्यागमिष्यति ।
 [६]अन्तर्बहिश्च पुत्रस्ते [७]कृतमूलो भविष्यति ॥ ३४ ॥


  1. कृतमूलः-स्ववशीकृतमूलबलः-गो.
  2. सर्वथा प्रव्राजनावरणे आशयमाह-प्रव्राजनस्येति ।
  3. ते सुत इति शेषः ।
  4. "यद्वा रामो भविष्यति एक-एव भविष्यतीत्यर्थः"-गो. रमयत्यानन्दयतीति रामः-मुनीनिति शेषः-ती. वस्तुतस्तु -'पिताऽपिता भवति' इत्यादाविव-राम इति व्यपदेशार्ह एव स न भवति ॥ यतः सः वनंगतः नामरूपरहितः-क्रमेण जनानामविदितप्रायः स्यादितिभावः ।
  5. तव भरत इत्यन्वयः
  6. तेन कालेन-ङ
  7. कृतमूलः-रूढमूलः-गो.