पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
84
[अयोध्याकाण्डः
रामप्रवासनाध्यवसायः

 न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
 मन्दस्वभावे ! बुध्यस्व सौभाग्यबलमात्मनः ॥ २७ ॥

 नन्वनुनयानङ्गीकारे मम धिक्कारो भविष्यतीति भयं त्याजयति-मन्देत्यादिना । त्वत्सौभाग्य[१]विस्मयं अविस्मृत्य धिक्कारभयं दूरे त्यजेत्यर्थः ॥ २७ ॥

 यौ तौ [२][३]दैवासुरे युद्धे वरौ दशरथो ददौ ।
 तौ स्मारय महाभागे ! [४]सोऽर्थो न [५]त्वामतिक्रमेत् ॥

 सर्वानुनये धिक्कृते 'किं मया कर्तव्यम्' इति राजप्रश्ने प्राप्ते कर्तव्यमुत्तरमुपदिशति-यौ तौ इत्यादि । सोऽर्थ इति-वरप्राप्तिरूपोऽर्थ इत्यर्थः । नातिक्रमेदिति । सर्वथा सिद्ध्यत्येव, राज्ञः सत्यप्रतिज्ञत्वादि-त्याशयः ॥ २८ ॥

 यदा तु ते वरं दद्यात् [६]स्वयमुत्थाप्य राघवः !
 व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ २९ ॥

 व्यवस्थाप्य-शपथैः आवश्यकप्रदानकं कृत्वा इत्यर्थः ॥ २९ ॥

 रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।
 भरतः क्रियतां राजा पृथिव्याः [७]पार्थिवर्षभः ॥ ३० ॥


  1. वैभवं विस्मृत्य-क.
  2. अत्र ११ तमपद्य इव देवासुर इति कुत्रचित्पाठो दृश्यते ॥ परन्तु पूर्वोक्तरीत्या समाहारासंभवात्-युद्धकाण्डे 'देवासुराणां'-(90-25) इत्येव सर्वकोशेषु पाठोपलब्धेः-समाहारे 'देवासुराणां' इति बहुवचनासंभवात्-'देवासुरे' इति पाठे तत्पदस्य देवासुरसम्बन्धिनि लक्षणाया वक्तव्यत्वात् च 'दैवासुरे' इत्येव पाठः स्यादिति विभावयामः ।
  3. देवासुरे-ङ. च.
  4. सोऽर्थो न त्वा क्रमेदति-सोऽर्थो मा त्वामतिक्रमेत्-इति पाठान्तरे ।
  5. त्वा क्रमेदपि-ङ.
  6. उत्थाप्य-भूमौ शयानां त्वामिति शेषः ।
  7. पार्थिवर्षभ इत्यनन्तरं इतिशब्द ऊह्यः.