पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
83
देवि ! राज्ञा पुरा दत्तं याचस्वाद्य वरद्वयम्

 क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते !
 शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ २२ ॥

 एवमुपायमुपदिश्य तत्प्रवर्तनोपायमप्यह-कोषागारमित्यादि । राज्ञा कलहे यद्गृहं स्त्रियः प्रविशन्ति-तत् क्रोधागारम् । क्रुद्धेव-क्रुद्धैव सती-क्रोधहेतुमस्मदुपदिष्टं तत्सान्त्वनेऽप्यविस्मरन्तीति यावत् । अयमेवार्थो विव्रियते-शेष्वानन्तर्हितायामित्यादिना । अनन्तहितायां-अनास्तृतायाम् ॥ २२ ॥

 मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ।
 रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा ॥ २३ ॥

 जगत्यां-भुवि । शेष्वेति शेषः ॥ २३ ॥

 दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
 त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ २४ ॥

 एवं सति कार्यसिद्धिर्भवत्येवेत्याह-दयितेत्यादि । त्वत्कृते त्वत्प्रीणननिमित्तम् ॥ २४ ॥

 न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् ।
 तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥ २५ ॥
 [१]मणिमुक्तासुवर्णानि रत्नानि विविधानि च ।
 दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥ २६ ॥

 'वरदानव्यतिरिक्तानशेषाननुनयान् मा स्वीकुरु' इत्युपदिशति-मणीत्यादि ॥ २६ ॥


  1. इदं श्लोकं सर्वत्र 'न अतिक्रमितुं' इत्यस्यानन्तरं उपलभ्यते ॥