पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
82
[अयोध्याकाण्डः
रामप्रवासनाध्यवसायः

 तेन-एवं द्विः प्राणरक्षणेन हेतुना तुष्टेन तेन राज्ञा इत्यर्थः । तत्तेनेति । तत्-त्वदुक्तं वचनम् । तेन-राज्ञेत्यर्थः ॥ १७ ॥

 [१][२]अनभिज्ञाऽसि तद्देवि ! त्वयैव [३]कथिता पुरा ॥ १८ ॥
 अनभिज्ञाऽसि-विस्मृताऽसि । चिरकालवशात् ॥ १८ ॥

 [४]तथैषा तव तु स्नेहान्मनसा धार्यते मया ।
 रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥ १९ ॥

 यथा कथिता, तथैषा कथेति योजना । अभिषेकसंभारात् वरबलेन निगृह्य-निरुध्य, अभिषेकं विनिवर्तय ॥ १९ ॥

 तौ च याचस्व भर्तारं भरतस्याभिषेचनम् ।
 [५]प्रव्राजनं च रामस्य वर्षाणि तु चतुर्दश ॥ २० ॥

 निवर्तनप्रकारमाह-तौ वरावित्यादि । भर्तारं तौ वरौ याचस्व । याचिर्द्विकर्मकः । तेन दानेऽनुमते, तयोरेकेन भरतस्याभिषेचनं, अपरेण रामस्य प्रव्राजनं च वृणु इति शेषः ॥ २० ॥

 चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् ।
 [६]प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥ २१ ॥

 चतुर्दशसङ्ख्या किमर्थेत्यत्राह-चतुर्दशेत्यादि । प्रजानां भाव-गतः-आन्तरगतो यः स्नेहः-त्वत्पुत्रेऽनुरागः तेन हेतुना स्थिरस्तथा ॥


  1. अनभिज्ञा ह्यहं-ङ. च.
  2. पाठान्तरे-अहं अनभिज्ञा, कथं तर्हि ज्ञातमित्यत्र-त्वयैवेति । अहं कथितेत्यन्वयः ।
  3. कथितं-ङ. च.
  4. कथैषा-ङ. च.
  5. प्रव्राजनं चेत्येवंरूपौ तौ वरौ याचस्वेति वाऽन्वयः ।
  6. प्रजाभावगतः स्नेहः–यस्य स तथोकः-गो. ति.