पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
81
रामप्रवासनोपायं मन्थरा समुपादिशत्

 तस्मिन् महति संग्रामे पुरुषान् [१]क्षतविक्षतान् ।
 रात्रौ प्रसुप्तान् घ्नन्ति स्म [२]तरसाऽऽसाद्य राक्षसाः ॥ १४ ॥

 क्षतविक्षतशब्दौ क्रमाद्भावकर्मणोः । औक्षणु [३]हिंसायाम् । तस्मान्निष्ठायामिडभावः । विक्षतेः टित्वात् 'अनुदात्तोपदेश-इत्यनुनासिकलोपः । क्षतैः-अस्त्रशस्त्रवधैः विशेषेण विद्धा इत्यर्थः । रात्रौ प्रसुप्तान्-दिवायुद्धश्रान्त्या । तरसा-बलेन ॥ १४ ॥

 तत्राकरोन्महद्युद्धं राजा दशरथस्तदा
 असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ १५ ॥

 तत्रेति । तद्रात्र्यामित्यर्थः । शकलीकृत इति । सर्वाङ्गेषु प्रहृत इत्यर्थः ॥ १५ ॥

 अपवाह्य त्वया देवि ! सङ्ग्रामान्नष्टचेतनः ।
 तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ १६ ॥

 त्वया-सारथ्यं कुर्वाणया सङ्ग्रामादन्यतोऽपवाह्य नष्टचेतनः-मूर्छितः राजा रक्षितः । यत्र रक्ष्यते, तत्रापि पुनः शस्त्रैर्विक्षतः,ततोऽप्यपवाह्य रक्षितः ॥ १६ ॥

 तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने !
 स त्वयोक्तः पतिर्देवि ! यदेच्छेयं तदा वरौ ॥ १७ ॥
 गृह्णीयामिति, तत्तेन तथेत्युक्तं महात्मना ।


  1. क्षताः-बाणशूलादिभिः संजातव्रणाः, विक्षताः- खड्गपरशुपट्टसादिभिर्विविधं प्रहृताः । तान् प्रसुप्तान्- इत्यभिधानात् क्षतविक्षतत्वं दिवायुद्धकृतमित्यवगम्यते-गो.
  2. तरसापास्य-ङ.
  3. क्षणु हिंसायाम्। 'नपुंसके भावे क्तः' इति क्तप्रत्यये-'क्षतं' इति रूपम् ॥