पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
80
[अयोध्याकाण्डः
रामप्रवासनाध्यवसायः

 कथय त्वं [१]ममोपायं केनोपायेन मन्थरे !
 भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥ ९ ॥
 एवमुक्ता तु कैकेय्या मन्थरा पापदर्शिनी ।
 रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥ १० ॥
 [२]पुरा [३]देवासुरे युद्धे सह राजर्षिभिः पतिः ।
 अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत् ॥ ११ ॥

 देवासुर इति । 'येषां च विरोधः' इत्येकत्वम् । तत्संबन्धिनीति यावत् । दण्डकान् प्रत्यगच्छत् ॥ ११ ॥

 दिशमास्थाय कैकेयि ! दक्षिणां दण्डकान् प्रति ।
 वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १२ ॥

 यत्र-दण्डकेषु, वैजयन्तमिति पुरं ख्यातम् । तत्र तिमिध्वजो नामाभूत् ॥ १२ ॥

 स शम्बर इति ख्यातः शतमायो महासुरः ।
 ददौ शक्रस्य संग्रामं देवसंधै[४]रनिर्जितः ॥ १३ ॥

 स एव लोकप्रसिद्धमायावी शम्बरश्च शक्रस्य सङ्ग्रामं ददाविति-शक्रेण प्रतियुद्धमकरोदित्यर्थः ॥ १३ ॥


  1. महोपायं-ङ.
  2. पुरा दैवासुरे-ङ.
  3. 'अत्र परत्वात् 'विभाषावृक्षमृग' (२-४-१२) इति प्राप्तं चकारेण बाध्यत इति दीक्षितः । अनेन नित्यत्वमुक्तम् । व्याख्यायां च 'देवासुराः' इत्यत्र नायमेकवद्भावः । तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः खलु कादाचित्क एव हि तेषां विरोधः । अमृतमथनकाले तेषां विरोधाभावात्' इत्युक्तम् । युद्धकाण्डे च 'देवासुराणां क्रुद्धानां (९०-२५) इति दृश्यते । अतोऽत्र 'दैवासुरे' इति पाठ एव श्रेयान् 'देवासुरे' इत्येकवद्भावाप्रसक्तेरिति । तयोर्विरोधस्य स्वाभाविकत्वे युक्त एकवद्भावः ।
  4. रनिन्दितः-ङ.