एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थमुप[१]हिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥
रामार्थं-रामाभिषेकरूपप्रयोजनम् ॥ ४ ॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि ! श्रूयतां च मे ।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति [२]केवलम् ॥ ५ ॥
ते पुत्र एव केवलं प्राप्स्यति न तु राम इत्यर्थः ॥ ५ ॥
किं न स्मरसि कैकेयि ! स्मरन्ती वा निगूहसे ।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥ ६ ॥
अहं वक्ष्याम्येवोपायं; अपि तु त्वमविज्ञाय पृज्छसि ? ज्ञात्वापि मन्मुखाच्छ्रोतुं गोपयसि वा ? इति पृच्छति-किं नेत्यादि । उच्यमानमात्मार्थमिति। आत्मप्रयोजनं प्रत्युपायामति शेषः ॥ ६ ॥
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि !
श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥ ७ ॥
भवतु यथा तथा वा । मयोच्यमानं तदुपायतत्त्वं श्रोतुं छन्दः–इच्छा यदि, तदा श्रूयताम् । [३]'छन्द इच्छा वेदपद्ये' इति कोशः ॥ ७ ॥
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी ।
किञ्चिदुत्थाय शयनात् [४]स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥
श्रवणे, श्रुतार्थानुष्ठाने चोत्साहो दर्शितः-उत्थायेत्यादिना ॥ ८ ॥