पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
76
[अयोध्याकाण्डः
मन्थरोपदेशः

 यदि चेत् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥ ३४ ॥
 [१]स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
 समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ ३५ ॥

 ननु भरताभिषेकसाधनेऽपि कथं रामज[२]नाशप्रसंगनिवृत्तिरित्यत्र राज्ये सति त्वत्पुत्रस्य प्राबल्यात् स्वयमेव नाशो [३]भरताद्भविष्यतीत्याह-यदीति । धर्मादिति । पितृदीयमानत्वरूपादिति यावत् । रामस्य सहजो रिपुरिति । भविष्यतीति शेषः । किं तत इत्यत्राह-समृद्धेत्यादि । समृद्धार्थस्य त्वत्पुत्रस्य वशे स्थितः नष्टार्थो रामः कथं जीविष्यति । स्वयमेव शनैर्नङ्क्ष्यतीत्यर्थः ॥ ३५ ॥

 अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।
 प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ ३६ ॥

 यदेवं अतो रामवृद्धिं निवार्य रक्षणीयस्तव पुत्र इत्याह-अभि-द्रुतमिति । अरण्ये सिंहेनाभिद्रुतं गजयूथपमिव रामेण-राज्यप्राप्तया प्रबलेन प्रच्छाद्यमानं-अभिभूयमानं भरतं तदभिषेकनिरोधेन त्रातुमर्हसि ॥ ३६ ॥

 दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
 राममाता सपत्नी ते कथं वैरं न यातयेत् १ ॥ ३७ ॥


  1. राज्यानवाप्तावनिष्टमाह-स इति । सहजो रिपुः- सपत्नीपुत्रत्वात्सहजः शत्रुः । ते बालः-भरतः रामस्य वशे कथं जीविष्यति गो.
     अन्यथा दुःखमेवेत्याह-स त इति ॥ समृद्धार्थस्य रामस्य वशे नष्टार्थः कथं जीविष्यतीत्यर्थः-ति. पूर्वापरानुरूप्यादिदं युक्तमिव । सहजो रिपुः–सन्निहितदायादित्वात् ।
  2. नाशाप्रवृत्ति-क.
  3. भरतादेर्भवि-ग