पुटमेतत् सुपुष्टितम्
८ सर्गः]
75
बालिशे ! भरतं हन्यात् राजा रामो न संशयः
गोप्ता हि रामं सौमित्रिः लक्ष्मणं चापि राघवः ।
अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ ३१ ॥
तस्मान्न लक्ष्मणे रामः पापं किञ्चित् करिष्यति ।
रामस्तु भरते पापं कुर्यादेव न संशयः ॥ ३२ ॥
पापमिति । वधमिति यावत् ॥ ३२ ॥
रामाभिषेकविघ्नाप्रवृत्तावन्ततो वक्तव्यमाह-तस्मादित्यादि । यस्माद्वधो रामात् प्राप्तः-तस्मात् राजगृहादेव-मातुलगृहादेव वनं गच्छतु-नात्रागत्य म्रियताम् । एतद्धि मह्यं 'अन्ततो वक्तव्यं' इति भृशं रोचते । 'जीवन् भद्राणि पश्यति'–(सुन्द.-१३-४७) इति न्यायेन तवापि पुत्रस्य जीवनानपायतो हितं । एवं च-दुरदृष्टजदुर्मतिवशाभिरुचितं, ते ज्ञातिपक्षस्य श्रेयश्च, अप्रतिहतं भविष्यतीति शेषः ॥ ३३॥
- ↑ केकयराजनगरस्य 'राजगृहम्' इति नाम । 'पुरं राजगृहं गत्वा' (अयो.-68–6) इत्युक्तेः ।
- ↑ भरतो राज्यं यद्यवाप्स्यति-एवञ्चेत् ते ज्ञातिपक्षस्य, बंधुवर्गस्य,श्रेयश्चापि भविष्यति-गो. ति. एवं-एवं सति, मातुलगृहादेव वनगमने सति ते ज्ञातिपक्षस्यास्मदादेः श्रेयश्च भविष्यत्येव, श्रेयः-जीवनरूपं कल्याणम् ।.... ...यदि
चेदिति । यदि वेत्यर्थः । धर्मात् पितृदीयमानत्वरूपात् । तदा वा ज्ञातिपक्षस्य श्रेय इत्यर्थः । यद्वा एवमेव ते पक्षस्य श्रेयो भविष्यति । एवमेवेत्येतदुपपादयति-यदि चेदिति-ति.
अथवा रामानन्तरं ज्यैष्ठयक्रमाद्धर्मादेव पूर्वोक्तरीत्या यदि भरतो राज्यं आप्नुयाच्चेत् एवं सति ते ज्ञातिपक्षस्य-कौसल्यादेरेव श्रेयो भविष्यति । रामानन्तरं भरतराज्य-प्राप्तिरसंभावितैव । यतो रामानन्तरं तत्पुत्राणामेव राज्यार्हताऽनुपदमुक्तेत्यर्थः । कतकरीत्या एवं चेत्यादि पूर्वान्वयि, यदि चेत्याद्त्तरान्वयि । इतरव्याख्यारीत्या 'एवञ्च' 'यदि चेत् ' इत्यर्धद्वयमेकं वाक्यम् । - ↑ ते-ङ.