पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
74
[अयोध्याकाण्डः
मन्थरोपदेशः

 अथ--दशरथस्य रामे पक्षपातः राज्याभिषेकप्रयोजकः भरता-सन्निधानादेव । तदपि दैवात् त्वया कृतं इत्याह-बाल एवेति । मातुलस्येदं मातुल्यं-मातुलदेशमिति यावत् । बाले तस्मिन् गते, स्थिते वा किं? इत्यत्राह-सन्निकर्षादित्यादि । सन्निकर्षाद्धेतोः अवरेष्वपि सुतेषु पितॄणां स्नेहो जायत इति लोकप्रसिद्धम् । अतो भरते स्थिते रामस्येव भरतस्यापि राजा राज्यं विभज्य दास्यति । दुरदृष्टवशाद्भरत-सन्निकर्षो न संपन्न इति ॥ २८ ॥

 भरतस्याप्यनु[१]वशः शत्रुघ्नोऽपि [२]समं गतः ।
 लक्ष्मणो हि यथा रामं तथाऽसौ भरतं गतः ॥ २९ ॥

 यदि भरतैकहृदयः शत्रुघ्नोऽत्र तिष्ठेत् तदाऽपि भरतकार्यस्यानपायः ; सोऽपि दैवाद्गत इत्याह-भरतस्यापीति । भरतं गत इति । एकहृदयतयेति शेषः ॥ २९ ॥

 [३]श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः ।
 सन्निकर्षादिषीकाभिः मोचितः परमाद्भयात् ॥ ३० ॥

 किञ्चित्सन्निकर्षात् किञ्चिदनर्थनिवृत्तिर्लोके दृष्टेत्याह-श्रूयत इत्यादि । वनजीविभिः-वनवृक्षच्छेदादिव्यापारजीविभिः छेत्तव्यः- प्राप्तछेदनकालः तस्मात्परमाद्भयात् इषीकाभिः-इषीककण्टकबहुगुल्मैः सन्निकर्षात्-परितः परिवारणरूपात् मोचित इति श्रूयते । हीति नित्यान्तःपुरवर्तित्वेन [४]श्रवणानुभवकथनम् ॥ ३० ॥


  1. मतः-ङ.
  2. समं-भरतेन सह.
  3. स्थावरेष्वपीत्युक्तमुपपादयति-श्रूयते हीति ॥ गो.
  4. तदनुभवासंभवादिति भावः ।