पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
73
किं नु कैकेयि ! संप्राप्तमनर्थं नावबुध्यसे

 तस्मात् ज्येष्ठे हि कैकेयि ! [१]राज्यतन्त्राणि पार्थिवाः ।
 स्थापयन्त्यनवद्याङ्गि ! गुणवत्स्वितरेषु च ॥ २४ ॥

 यस्मादेवं तस्मात्-राज्यतन्त्राणि-राज्याधिकारादिव्यापारापे-क्षितप्राधान्यानीत्यर्थः । 'तन्त्रं प्रधाने सिद्धान्ते' । इतरेषु-कनीयस्सु ॥ २४ ॥

 असावत्यन्तनिर्भग्नः तव पुत्रो भविष्यति ।
 अनाथवत्सुखेभ्यश्च राजवंशाच्च हास्यते ॥ २५ ॥

 यदेवं अतः-असावित्यादि ॥ २५ ॥

 साऽहं त्वदर्थे संप्राप्ता, त्वं तु मां नावबुध्यसे ।
 सपत्नि[२]वृद्धौ यन्मे त्वं प्रदेयं दातुमिच्छसि ॥ २६ ॥
 ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।
 देशान्तरं नाययिता लोकान्तरमथापि वा ॥ २७ ॥

 त्वदर्थ इति । उक्तरीत्या त्वत्पुत्रराज्यभ्रंशे प्राप्ते तत्परिहारकथन-प्रयोजनार्थमित्यर्थः । नावबुध्यस इति । हितार्थमागतामिति शेषः । सपत्न्याः वृद्धिः-सपत्निवृद्धिः । 'ङ्यापोः' इति ह्रस्वः । यत्-यस्मात् प्रदेयं–पारितोषिकं दातुमिच्छसि तस्मात्-ध्रुवमित्यादि । लोकान्तरामति । हनिष्यतीति यावत् ॥ २७ ॥

 [३]बाल एव हि मातुल्यं भरतो नायितस्त्वया ।
 [४]सन्निकर्षाच्च सौहार्दं जायते [५]ह्यवरेष्वपि ॥ २८ ॥


  1. राज्यतन्त्राणि-राज्यपरिपालनादिव्यापारान् । 'तन्त्रं स्वराष्ट्रव्यापारे' इति वैजयन्ती-गो.
  2. वृद्धिकामे त्वं-ङ.
  3. अत्र 'त्वया' इत्यनेन भरते राजस्नेहप्रयोजकं सान्निध्यं त्वयैव
    विघटितमिति, भवतोऽपि भरते प्रीतिर्नास्त्येवेति मर्मताडनं वा ।
  4. अत्र पाठान्तरे-सान्निध्यात् स्थावरेष्वप्यन्योन्यं सौहार्दं जायत इत्यर्थः, ३० श्लोकानुसारात् ।
  5. स्थावरेष्विव, स्थावरेष्वपि-ङ.