पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
72
[अयोध्याकाण्डः
मन्थरोपदेशः

 एवं रामाद्भरतस्य राज्यापहारोपजापं परिहृतवर्ती कैकेयीं मन्थरा तृतीयपर्यायेण सर्वथा राज्यभ्रंशो भवितेति भेदयति-कैकेय्या वचनमित्यादिना ॥ २० ॥

 अनर्थदर्शिनी मौर्ख्यात् नात्मानमवबुध्यसे ।
 [१]शोकव्यसनविस्तीर्णे [२]मज्जन्ती दुःखसागरे ॥ २१ ॥

 अनर्थदर्शिनी । अनर्थस्यैवार्थत्वेन दर्शनशीलेति यावत् । शोकः-इष्टवियोगानिष्टसंप्रयोगजः । व्यसनं तु-अभीष्टानाप्त्यनिष्टापरिहारजम् । शोकव्यसनजलोर्मिभ्यां विस्तीर्णे-व्याप्ते- उक्तोभयसामस्त्यात्मकदुःखसागरे मज्जन्तीमात्मानं मौर्ख्यान्नावबुध्यसे -न जानीषे ॥ २१ ॥

 भविता राघवो राजा राघवस्य च यः सुतः ।
 राजवंशात्तु भरतः कैकेयि ! [३]परिहास्यते ॥ २२ ॥

कुत एवं त्रिवारं कथयसीत्यत्राह-भवितेत्यादि । परिहास्यत इति-ओ हाङो ऌट् ॥ २२ ॥

 न हि [४]राजसुताः सर्वे राज्ये तिष्ठन्ति भामिनि !
 स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ २३ ॥

 ननु राघवसुतवत् भरततत्सुताः कुतो राज्यं न प्राप्नुयुः ? इत्यत्राह-न हि राजसुतेत्यादि । कुतः सर्वे न तिष्ठन्तीत्यत्राह-स्थाप्य मान इत्यादि । [५]अनयः-परस्परपीडालक्षणः ॥ २३ ॥


  1. विलापहेतुः शोकः, व्यसनं विपत् । यद्वा शोकः इष्टवियोगजं दुःखं, व्यसनं स्वस्य सुखाद्धंश-गो.
  2. मज्जन्तं-ङ.
  3. परिहास्यते-निर्वास्यते ॥ गत्यर्थाद्धसेर्णिजन्तात्कर्मणिलट्-गो. ॥ हीनोभविष्यति-ति.
  4. 'न हि राज्ञा सुताः' इति सर्वत्र पाठ उपलभ्यते ।
  5. अनयः-नातिविरोधः-गो.