पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
71
पुनस्तां भेदयामास भयमुत्पाद्य मन्थरा

 भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।
 पितृपैतामहं राज्य[१]मवाप्ता पुरुषर्षभः ॥ १६ ॥

 पितृवत् भ्रातॄनविभागेन परिपालयतो रामस्य पितृवदेव वर्षशतात्परमपि यदा विबिभाजयिषा भवति तदा भरतो राज्यमवाप्ता-प्रपत्स्यत इति ध्रुवम् । अपि शब्दाल्लक्ष्मणशत्रुघ्नयोरपि राज्यप्राप्तिर्ध्रुवेत्यर्थः ॥ १६ ॥

 [२]सा त्वमभ्युदये प्राप्ते [३]वर्तमाने च मन्थरे !
 भविष्यति च कल्याणे किमर्थं परितप्यसे ॥ १७ ॥

 कल्याण इति । रामाभिषेकलक्षण इत्यर्थः ॥ १७ ॥

 यथा मे भरतो मान्यः तथा भूयोऽपि राघवः ।
 कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् ॥ १८ ॥

 [४]मान्य इति । प्रार्थनीयश्रेयस्क इति यावत् । अतिरिक्तं अभ्यधिकम् ॥ १८ ॥

 राज्यं च यदि रामस्य भरतस्यापि तत्तदा ।
 मन्यते हि यथाऽऽत्मानं तथा भ्रातॄंश्च राघवः ॥ १९ ॥
 कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता ।
 दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ २० ॥


  1. मवाप्स्यति नरर्षभः-ङ.
  2. प्राप्ते-उचिते अभ्युदये-समाभिषेकरूपे-वर्तमाने च प्रत्यासन्ने सति-कल्याणे-भरताभिषेकरूपे-भविष्यति च किमर्थं परितप्यसे- गो. ॥ कालत्रयेऽपि कल्याणे सति किमर्थं तप्यस इति भावः ॥ पूर्वश्लोकानुसाराच्च ॥ कल्याणे भरताभिषेके-भविष्यति-कियता कालेन-(इदानीं किमर्थं परितप्यसे)-ति.
  3. दह्यमानेव-ङ,
  4. मान्यः-बहुमान्यः-गो.