पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
70
[अयोध्याकाण्डः
मन्थरोपदेशः

 रामस्य स्त्रिय इति । तत्पार्श्वपतिता इति शेषः । भरतस्य क्षये-प्रभावक्षये । दासभावापत्ताविति यावत् ॥ १२ ॥

 तां दृष्ट्वा [१]परमप्रीता ब्रुवन्तीं मन्थरां ततः ।
 रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥ १३ ॥

 एवं दुर्युक्तिपुरस्सरं कृतोपजापाऽपि कैकेयी निसर्गपुण्यस्वभावत्वात् न चचालेत्युच्यते-तामित्यादिना । ब्रुवन्तीमिति । तथोपजापं ब्रुवन्तीमित्यर्थः । [२] राम इति शेषः । अत एव देवीति । पुण्यस्वभावेति यावत् ॥ १३ ॥

 [३]धर्मज्ञो [४]गुणवान् दान्तः कृतज्ञः [५]सत्यवाक् शुचिः |
 रामो राज्ञः सुतो ज्येष्ठो यौवराज्यं ततोऽर्हति ॥ १४ ॥

 मन्थरोपजापयुक्तिं प्रतिक्षिपति-धर्मज्ञ इत्यादिभिः । तत इति । यतो धर्मज्ञत्वादिभिः ज्यैष्ठ्यं च तदभिषेकसामग्री तत एवेत्यर्थः ॥ १४ ॥

 'भ्रातॄन् भृत्यांश्च दीर्घायुः' [६]पितृवत् पालयिष्यति।
 संतप्यसे कथं कुब्जे ! श्रुत्वा रामाभिषेचनम् ॥ १५ ॥

 एवं रामाभिषेकस्यैव न्याय्यत्वं स्वसम्मतत्वं च प्रदर्श्य स्वपुत्राद्य-नर्थप्रसक्तिशङ्कामपि परिहरति-भ्रातृनित्यादिना । कथामिति । कस्मात् इत्यर्थः । व्यर्थमेवेति यावत् ॥ १५ ॥


  1. परमप्रीतां-ङ. च.
  2. इदं च कैकेयीविशेषणम् ।-गोविन्दराजीये तु मंथराविशेषणम् । परं अप्रीतां इति पदविभागःपरमप्रीतेति ।
  3. मन्थरोक्तं राज्यसाधारण्यं निवर्तयति-धर्मज्ञ इति गुरुभिः दान्तः-शिक्षितः-गो.
  4. गुरुभिः-ङ.
  5. सत्यवान्-ङ.
  6. पुत्रवत्-ङ.