पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
77
दासीवद्वर्तितव्यं स्यात् कौसल्यायां त्वयाऽपि च

 अन्यथा सर्वथैव प्राप्तानर्थं त्वदात्मानमपि त्रातुमर्हसीत्याह-दर्पादित्यादि । कथं वैरं न यातयेदिति । [१]वैरयातनं-वैरशुद्धिंत्वद्दास्यताऽऽपादनेन संपादयेदेवेत्यर्थः ॥ ३७ ॥

 यदा हि रामः पृथिवीमवाप्स्यति
  प्रभूतरत्नाकरशैलपत्तनाम् ।
 तदा गमिष्यस्यशुभं पराभवं
  सहैव दीना भरतेन भामिनि ! ॥ ३८ ॥

 उपसंहरति-यदा हीत्यादि । पराभवं-दास्यरूपम् ॥ ३८ ॥

 [२]यदा हि रामः पृथिवीमवाप्स्यति
  ध्रुवं प्रनष्टो भरतो भविष्यति ।
 अतो हि संचिन्तय राज्यमात्मजे
  परस्य चाद्यैव [३] विवासकारणम् ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टमः सर्गः

 यतो जोषमवस्थाने सपुत्रायास्तेऽनर्थः, अत एव यथा स्यादात्मजे राज्यं तथा चिन्तय । अपि च 'शत्रुशेषो हि न स्थाप्यः' इति न्यायेन अद्यैव परस्य विवासकारणं च चिन्तय । धीगौ (३९) मानः सर्गः ॥ ३९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डेऽष्टमः सर्गः



  1. 'वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा' इत्यमरः ।
  2. कैकेय्यनर्थमुक्त्वा भरतानर्थमाह–यदा हीति-गो.
  3. स्वोपजापपराकाष्ठां सूचयति–विवासेति॥