पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ सर्गः]
67
पुत्रशोकान्म्रियेथास्त्वं इति मां चाशपन्मुनिः

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ ५१ ॥

वपुष्मता, प्रशंसायां मतुप्, पुष्पकादिवत् - प्रशस्ताकारवता ||

स कृत्वा तूदकं तूर्णं तापसः सह भार्यया ।
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ ५२ ॥
अद्यैव जहि मां, राजन् ! मरणे नास्ति मे व्यथा ।
यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् [१] ॥ ५३ ॥

अद्येत्यादि । हे राजन् ! मामप्यद्यैव जहि-मारय । मे मरणव्यथा नास्ति । इदन्तु दुःखाद्वचनम् ॥ ५३ ॥

त्वयाऽपि च यदज्ञानात् निहतो मे स बालकः ।
[२] तेन त्वामपि शप्स्येऽहं सुदुःखमतिदारुणम् ॥ ५४ ॥

अज्ञानान्निहत इति यत्, तेन त्वामभिशप्स्याम्येत्र केवलं, न तु प्रत्यक्षतोऽद्य भस्मीकरोमि ॥ ५४ ॥

पुत्रव्यसनजं दुःखं यदेतन्मम सांप्रतम् ।
एवं त्वं पुत्रशोकेन, राजन् ! कालं गमिष्यसि ॥ ५५ ॥

सांप्रतं - वृत्तम् । त्वन्निमित्तमिति शेषः ॥ ५५ ॥

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।
तस्मात् त्वां नाविशत्याशु [३]ब्रह्महत्या, नराधिप ! ॥ ५६ ॥


  1. एतदनन्तरं 'कथं तेषां कुले जातः क्षत्रियाणां महात्मनां । सर्ववेदविदर्थज्ञो धर्मे न कुरुते मनः ।
    स्त्रीनिमित्तं न ते वैरं क्षेत्रजं वाक्यजं न ते ॥' इत्यधिकं - ङ.
  2. अतिदारुणं त्वां सुदुःखं यथा तथा शप्स्ये इत्यन्वयः । सुदुःखमतिदारुणमित्युभयमपि क्रियाविशेषणं वा ।
  3. ब्रह्महत्या - बहुपातकमित्यर्थः । अन्यथा वैश्यात् शूद्रायां जातस्य करणाख्यसंकरजातित्वेन ब्रह्महत्याप्रसक्त्यभावात्- गो. ब्रह्महत्यासदृशकरणवधजनितपापं - रा. गौणब्रह्महत्या वा विवक्षिता ।