पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
68
[अयोध्याकाण्डः
दशरथदिष्टान्तः


 [१] त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति ।
जीवितान्तकरो घोरः दातारमिव दक्षिणा ॥ ५७ ॥
एवं शापं मयि न्यस्य विलप्य करुणं बहु ।
चितामारोप्य देहं तत् मिथुनं स्वर्गमभ्ययात् || ५८ ॥

 देहमिति । देहाविति यावत् ॥ ५८ ॥

तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम् ।
तदा बाल्यात् कृतं, देवि ! शब्दवेध्यनुकर्षिणा ॥ ५९ ॥

 शब्दवेधीति । प्रथमं शव्दमात्रवेधी, पश्चात् विद्धशल्यस्यानुकर्षणमपि कृतवांस्तथा, तेनेत्यर्थः ॥ ५९ ॥

तस्यायं कर्मणः, देवि ! विपाकः समुपस्थितः ।
[२]अपथ्यैः सह [३] संभुक्तो व्याधिमन्नरसो यथा ॥ ६० ॥

 व्याधिमिति । उपस्थापयतीति शेषः ॥ ६० ॥

तस्मान्मामागतं, भद्रे ! तस्योदारस्य तद्वचः ।
यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् ॥ ६१ ॥

 उदारस्य - श्रेष्ठस्येत्यर्थः । तद्वचः- तस्य शापवचः फलमित्यर्थः ॥

चक्षुर्भ्यां त्वां न पश्यामि, कौसल्ये ! साधु मा स्पृश ।

[४]इत्युक्त्वा स रुदंस्त्रस्तः भार्यामाह तु भूमिपः ॥ ६२ ॥  त्रस्त इति । मरणभयादिति शेषः । अद्य जीवितं त्यक्ष्यामीति यत् अतो मुमूर्षुत्वात् न त्वां चक्षुषा पश्यामि ॥ ६२ ॥


  1. एतादृशः भावः - मनसोऽवस्थितिः त्वामपि क्षिप्रमेवागमिष्यति ।
  2. अपथ्यैरन्नरसैः सह भुक्तेऽन्नरसे व्याधिर्यथोपतिष्ठते-ति.
  3. संभुक्ते व्याधिरन्नरसे-च.
  4. एतदनन्तरश्लोकानां पौर्यापर्ये भेदः- ङ. पुस्तके दृश्यते ।