पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
66
[अयोध्याकाण्डः
दशरथदिष्टान्तः

 अस्मिन्-मदीये कुले-नित्यतपस्विकुले जातः न हि त्वकुशलां गतिं गच्छति । मम बान्धवस्त्वं येन हतः [१]स तु - तादृश एव तु अकुशलां गतिं यास्यति ॥ ४६ ॥

एवं स कृपणं तत्र पर्यदेवयतासकृत् ।
ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ ४७ ॥
ततो दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ।
[२]स्वर्गमध्यारुहत् क्षिप्रं [३] शक्रेण सह धर्मवित् ॥ ४८ ॥

 स्वर्गमध्यारुहदिति । ‘तेन सत्येन गच्छाशु' इति मुनिवचनानुक्षणमित्यर्थः ॥ ४८ ॥

आबभाषे च तौ वृद्धौ शक्रेण सह तापसः ।
आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ ४९ ॥

 आरुह्य शक्रेण सहागत्य आबभाष इति योजना ॥ ४९ ॥

[४]स्थानमस्मिन् महत् [५] प्राप्तः भवतोः परिचारणात् ।
भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ ५० ॥

 अस्मिन् लोके स्वर्गे वा । मूलं-समीपम् ॥ ५० ॥


  1. ननु तर्हि कथं दशरथस्य स्वर्गप्राप्तिरुत्तरत्र वर्णिता । युद्धकाण्डे च 'एष राजा दशरथः .. इन्द्रलोकं गतः ॥' (यु. 119-8) इति च कथं-इति चेत् - उच्यते न ह्यत्र ऋषिणा दशरथाय तथा शापोऽत्र दत्तः, दशरथं प्रत्यवचनादस्य । दीयते चोत्तरत्रैव शापः ' त्वयापि च यदज्ञानात्’ इत्यादिना । किन्तु वस्तुस्थितिकथनमेवेदमिति । ननु एतादृशवधकर्तुः सद्गतिर्वा कथमिति चेत्, ऋषिणा शापदानेन प्रायश्चित्तस्थानीयेन पुत्रवियोगशोकजमरणेनैव अबुद्धिपूर्वकैतद्वधजन्यपापस्य शान्त्या न कश्चिद्दोषः ।
  2. अरोहणक्रम एवोत्तरत्र वर्ण्यत इति न पौनरुक्त्यादिः ।
  3. मुनिपुत्रमानेतुं आगतेन शक्रेण सहेत्यर्थ: ।
  4. स्थानमस्मि महत्-ङ.
  5. प्राप्तः, अहमिति शेषः ।