पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३ सर्गः]
51
नद्यां शृण्वन् मृगस्येव शब्दं, बाणमपातयम्


जटाभारधरस्यैव वल्कलाजिनवाससः ।
को वधेन ममार्थी स्यात् किं वाऽस्यापकृतं मया ॥ २९ ॥

 मम वधेन-जटादिना व्यक्तर्षित्वस्य मम वधेन कः पुमान् अर्थी - किञ्चित्प्रयोजनवान् स्यात् । मानुषमांसं कस्यापि मनुष्यस्याप्रयोजनमिति व्यर्थ एव मद्वध इत्यर्थः ॥ २९ ॥

एवं निष्फलमारब्धं केवलानर्थसंहितम् ।
[१]क्वचित् साधु मन्येत यथैव [२]गुरुतल्पगम् ॥ ३०॥

 केवलानर्थेन–निष्प्रयोजनसंपन्नपापेन संहितम् । क्वचिदिति। इह लोके परत्र वेत्यर्थः ॥ ३० ॥

[३]नाहं तथाऽनुशोचामि जीवितक्षयमात्मनः ।
मातरं पितरं चोभौ अनुशोचामि मद्वधे ॥ ३१ ॥
तदेतन्मिथुनं वृद्धं चिरकालभृतं मया ।
मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ॥ ३२ ॥
वृद्धौ च मातापितरौ अहं चैकेषुणा हतः ।
केन स्म निहताः सर्वे सुबालेनाकृतात्मना [४] ॥ ३३ ॥

 एकेषुणा मातापितरौ हतौ, अहं च हतः इति विपरिणामः । मद्वधेन तयोर्वधस्य सिद्धत्वादित्याशयः । अकृतात्मना - अजितेन्द्रियेण ॥

तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः ।
[५] कराभ्यां सशरं चापं व्यथितस्यापतत् भुवि ॥ ३४ ॥


  1. कश्चित् - ङ.
  2. गुरुतल्पगं - गुरुदारगं 'तल्यं शय्याट्टदारेषु' इत्यमरः ।
  3. नेमं- च.
  4. इति वागभूदिति पूर्वेण (श्लो. २५) अन्वयः।
  5. सशरं चापमित्यनेन शरे मुक्तेऽपि इस्तलाघवात् शरान्तरं
    धनुषि संहितवानित्यवगम्यते - गो.