पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
50
[अयोध्याकाण्डः
ऋषिकुमारवधाख्यानम्


अमुञ्चं निशितं बाणं अहमाशीविषोपमम् ॥ २४ ॥
तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ।
हा हेति पततस्तोये बाणाभिहतमर्मणः ॥ २५ ॥

 वनौकसः- आरण्यकमनुष्यस्येत्यर्थः । बाणाभिहतमर्मणः तोये पततः वनौकसः हा ! हा !! इति व्यक्ता वाक् उषसि प्रादुरासीत् ||

तस्मिन्निपतिते [१] बाणे वागभूत् तत्र मानुषी ।
कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ २६ ॥

 एवं तस्मिन् बाणे निपतिते सति, तत्र विशिष्य मानुषी वागभूत् । कथमित्यत्र – कथमित्यादि ॥ २६ ॥

प्रविविक्तां नदीं रात्रौ उदाहारोऽहमागतः ।
इषुणाऽभिहतः केन ? कस्य [२] वा किं कृतं मया ? ॥ २७ ॥

 प्रविविक्तां-निर्जनाम्। उदकमाहरतीत्युदाहारः, 'मन्थौदन...' इत्यादिना उदकस्य उदादेशः । यद्यपि हारशब्दे परतः उदादेशो विहितः, तथापि एकदेशविकृतमनन्यवदिति भविष्यति । छान्दसो वा दीर्घः । उदहार इत्येव वा । किं कृतमिति । कि अनिष्टं कृतमित्यर्थः ॥ २७ ॥

ऋषेर्हि [३]न्यस्तदण्डस्य वने वन्येन जीवतः ।
कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ २८ ॥

 न्यस्तदण्डस्येति। परित्यक्तप्राणिर्हिंसस्येत्यर्थः ॥ २८ ॥


  1. भूमौ ङ.
  2. वाऽपकृतं- ङ.
  3. न्यस्तदण्डस्य – उपरतवाङमनःकायसम्बन्धिपरहिंसस्य। ‘दण्डोऽस्त्री शासने
    राज्ञां हिंसायां दमसैन्ययोः' इति विश्व: - गो.