पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३ सर्ग:]
49
बाल्ये, रात्रयामहं जातु मृगयायै गतो वनम्


 गिरिधातुभ्यो हेतुभ्यः, विमलान्यपि स्रोतांसि क्वचित् पाण्डुरवर्णानि तथाविधघातुसम्बन्धात्, क्वचित् अरुणानि तथाविधधातुसम्बन्धात्, क्वचित् सभस्मानि दावभस्मसम्बन्धात्, भुजङ्गवत् कुटिलानि सुस्रुवुः ॥ १९ ॥

तस्मिन्नतिसुखे काले धनुष्मान् इषुमान् रथी ।
व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम् ॥ २० ॥

 व्यायामः-मृगयाव्यायामः- उत्साहः, तत्र कृतसङ्कल्पः-कृत- निश्चयस्तथा ॥ २० ॥

निपाने महिषं रात्रौ गजं वाऽभ्यागतं [१] नदीम् ॥
अन्यं वा श्वापदं कश्चित् जिघांसु[२]रजितेन्द्रियः[३] ॥ २१ ॥

 निपीयते अस्मिन्निति निपानम्, नद्यवतारस्थल इत्यर्थः । जिघांसुरिति । अस्थामिति शेषः ॥ २१ ॥

अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः ।
अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ २२ ॥
ततोऽहं शरमुद्धृत्य दीप्तमाशीविषापमम् ।
शब्दं प्रति गजप्रेप्सुः अभिलक्ष्य[४] मपातयम् ॥ २३ ॥

 गजप्रेप्सुरिति । गजरूपं वेध्यं प्राप्तुमिच्छुस्तथा । शब्दं प्रति-शब्दावगतवेध्यं प्रति तज्जिघांसया शरमुद्धृत्य अभिलक्ष्यमपातयमिति योजना ॥ २३ ॥


  1. मृगम्- ङ.
  2. अनेन मृगयाचापल्यमुक्तम् । तेन तस्याः क्षत्रधर्मत्वेऽपि न विरोध: ।
  3. एतदनन्तरं 'तस्मिंस्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः । तत्राहं
    संवृतं वन्यं हतवान् तीरमागतम् ॥ अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाऽभ्युपागतम् ।’
    इत्यधिकं- ङ.
  4. त्वपातयम् -ङ.