पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
52
[अयोध्याकाण्डः
ऋषिकुमारवथाख्यानम्


धर्मानुकाङ्क्षिणः - धर्मप्रतीक्षाशीलस्य ॥ ३४ ॥

तस्याहं करुणं श्रुत्वा बहु लालपतो निशि ।
संभ्रान्तः शोकवेगेन भृशमासं विचेतनः ॥ ३५ ॥
लालपत इति । यङ्लुगन्तात् शतृप्रत्ययः ॥ ३५॥

तं देशमहमागम्य दनिसत्वः सुदुर्मनाः
अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ ३६॥
अवकीर्णजटाभारं प्रविद्धकलशोदकम् ।
पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ॥ ३७॥

प्रविद्धं - ध्वस्तम् ॥ ३७॥

स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थ[१]चेतसम् ।
[२]इत्युवाच [३] ततः क्रूरं दिधक्षन्निव तेजसा ॥ ३८ ॥

त्रस्तं मां नेत्राभ्यामुद्वीक्ष्य ॥ ३८ ॥

किं तवापकृतं, राजन् ! वने निवसता मया ।
जिहीर्षुरंभो गुर्वर्थं यदहं ताडितस्त्वया ॥ ३९ ॥
एकेन खलु बाणेन मर्मण्यभिहते मयि ।
द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ ४० ॥
तौ [४] कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ
[५]चिर[६] माशाकृतां तृष्णां [७] कष्टां सन्धारयिष्यतः ॥ ४१ ॥


  1. चेतनं-च.
  2. प्रत्युवाच - ङ.
  3. वचः-च.
  4. नूनं-च.
  5. आशाकृतां पुत्रो मे जलमाहरिष्यतीत्याशासहिताम्-गो.
  6. माशां-च.
  7. कथं-ङ.