पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

498 दण्डकारण्यप्रवेशः व्यक्ताक्षरपदं चित्रं भापितं मधुरं त्वया । 'यथा 'स्वयंवरं वृत्तं तत्सर्वं च श्रुतं मया ॥ २ ॥ स्वयंवरं वृत्तमिति । स्वयंवरविषयक वृत्तान्तमिति यावत् ||

  • रमेऽहं कथया ते तु दृढं, मधुरभापिणि !

रविरस्तंगतः श्रीमान् + उपोझ रजनीं 'शिवाम् ॥ ३ ॥ उपोचते। अतिवाचति यावत् ॥ ३ ॥ दिवसं 'परिकीर्णानां आहारार्थं पतत्रिणाम् । सन्ध्याकाले निलीनानां + निद्रार्थं थूयते ध्वनिः ।। ४ ।। दिवसमिति । अत्यन्तसंयोगे द्वितीया, दिवसे आहारार्थ परितः कीर्णानां - रुञ्चताम् । निलीनानामिति । निलीयमानानामित्यर्थः || एते चाप्यभिषेकार्द्राः मुनयः कलशोद्यताः । सहिता उपवर्तन्ते सलिलाहु वल्कलाः ॥ ५ ॥ कलशोधताः -- उद्यत कलशा इति यावत्, आहितामयादिः । सहिताः – परस्परसमेताः ॥ ५ ॥ प्राप्य - गो. अग्निहोत्रे च ऋपिणा हुने च विधिपूर्वकम् । १ कपोताङ्गारुणो धूमः दृश्यते पवनोद्धतः ॥ ६ ॥ कपोताङ्गवत् -- पारावतकवत् अरुणः ---मेचकः, 'श्यामे रक्तेऽ- रुणेच' ।। ६ ।।

  • यथा - येन प्रकारेण स्वयंवरं वृत्त प्रचलितम् ।

+ निद्रार्थ निलीनानामिस्यन्वयः । [[अयोध्याकाण्डः प्रत्यक्षसिद्धम् । 1 स्वयंबरे - रमेयं-य. शुभाम्-च. 2 3 + उपेक्ष -समीपं ६ धूममिश्रितज्वालायाः ताइकं प्रतिकीर्णानां