पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११९ सर्ग:] भुत्वाऽनसूया तत् हृष्टा सीता तां परिषस्वजे . दीयमानां न तु तदा प्रतिजग्राह राघवः । अविज्ञाय पितुश्छन्दं अयोध्याधिपतेः प्रभोः ।। ५१ । छन्दं - अभिप्रायम् ।। ५१ ॥ x ततः श्वशुरमामन्त्रय वृद्धं दशरथं नृपम् । 'मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। ५२ ।। 'मम चैवानुजा साध्वी ऊर्मिला शुभदर्शना । भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३ ।। एवं दत्ताऽस्मि रामाय तथा तस्मिन् स्वयंवरे । अनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम् ।। ५४ ।। इत्यायें श्रीमद्र मायणे वास्नीकीये अयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः आगम (५३ १/२)मानः सर्गः ।। ५४ ।। इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अष्टादशोत्तर शततमः सर्गः 497. एकोनविंशत्युत्तरशततमः सर्गः [दण्डकारण्यप्रवेशः] अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । पर्यध्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। १ ।। अथ अनसूयासम्मानितसीतया सह रामस्य अध्याश्रमे रात्रौ निविष्टस्य प्रातर्वनान्तरप्रस्थानम् । अनसूयेत्यादि ॥ १ ॥ ★ सीताप्राप्तयनन्तरं जनकस्येयं जातेति वदन्ति । ' मात्रा-उ. 2 प्रिय-.