पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

436 सीताऽनसूयासंवादः सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः । विश्वामित्रेण सहितः यज्ञं द्रष्टुं समागतः ॥ ४४ ॥ लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः । विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ ४५ ॥ प्रोवाच पितरं तत्र 'राघवौ * रामलक्ष्मणौ । सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणी ॥ ४६ ॥ इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् 'तद्धनुर्दर्शयामास राजपुत्राय दैविकम् ॥ ४७ ।। दैविकं – देवनिर्मितम् ।। ४७ ॥ 3 T निमेषान्तरमात्रेण तदानम्प महाबलः । ज्यां समारोप्य झटिति ' पूरयामास वीर्यवान् ॥ ४८ ।। पूरयामासेति । सज्यं कृत्वा आकृष्टव नित्यर्थः ॥ ४८ ।। तेनापूरयता वेगात् मध्ये भग्नं 'द्विधा धनुः । तस्य शब्दोऽभवत् भीमः पतितस्याशनेर्यथा ॥ ४९ ।। ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । + उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ५० ॥

  • रामलक्ष्मणाबुद्दिश्य पितरं प्रोवाच ।

मुझम्य दातु सुखता - मां दातुं उयुक्तवानिति यावत् । ! भ्रातरौ ङ. इत्यधिकं-ड. राघवः- ख. 7 निश्चिता- ङ. [अयोध्याकाण्ड: तेन – रामेण । जलभाजन- दैविकम् - 2 एतदनन्तरं -- धनुर्दर्शय रामाय राजपुत्राय 3 इदम कुण्डलितं - ङ. 4स वीर्यवान्, सुवीर्यवान्, स पूरयामास बीर्यवत्, वीर्यवडलवद्धनु:-कु. 5 ' महत् - ङ.