पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९ सर्गः]
23
राम मां प्रापयाशु त्वं प्राणाः सन्त्वरयन्ति माम्


 किञ्चिदिति । प्रियमिति शेषः । प्राणाः सन्त्वरयन्तीति । निष्क्रमितुमिच्छन्तीति यावत् ॥ २१ ॥

[१]यदि वाऽद्य ममैवाज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ||२२||

 यदि वा -अथ वा अद्य ममाज्ञा-छान्दसष्टायाः पूर्वसवर्णता, आज्ञया, भवानद्य राघवं निवर्तयतु | ॥२२॥

अथ वाऽपि महाबाहुः गतो दूरं भविष्यति ।
मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥२३॥

 अथ रामनिवर्तनपक्षस्याशक्यत्वात् स्वनयनमेवाह- - अथ वेत्यादि ॥२३॥

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।
यदि जीवामि साध्वेनं पश्येयं सीतया सह [२]॥२४॥

 यदि जीवामीति । तत्समीपगमनर्पयन्तमपि मज्जीवनस्थितौ सन्देह इत्यर्थः ॥२४॥

अतो नु किं दुःखतरं [३] योऽहमिक्ष्वाकुनन्दनम् ।
इमामवस्थामापन्नः नेह पश्यामि राघवम् ॥२५॥

'अतो नु' इत्यत्र अतःशब्दार्थः-- इमामित्यादि ॥ २५ ॥


  1. अथ वा ममाज्ञैव रामं निवर्तयतु, राजाज्ञाया अनुल्लंघनीयत्वादित्याशयः । राजाज्ञा
    एवं वदतीत्यादिवत् प्रयोगः
  2. एतदनन्तरं 'लोहिताक्षं महाबाहुं आमुक्तमणिकुण्डलम् । रामं यदि न पश्येयं
    गमिष्यामि यमक्षयम् ॥' इत्यधिकं-ङ.
  3. इक्ष्वाकुनन्दनं राघवमित्यन्वयः ।