पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
22
[अयोध्याकाण्डः
दशरथक्रन्दः

कैकेय्या विनियुक्तेन [१] पापाभिजनभावया ।
मया न मन्त्रकुशलैः वृद्धैः [२]सह समर्थितम् ॥ १८ ॥

 सूतवचः श्रुत्वा इदानीं स्वाज्ञानमूलोऽनर्थ इति शनैर्बुध्यते- कैकेय्येत्यादि । विशेषेण [३] स्वर्णपकरणे नियोजितस्तथा । पापात्-अन्याय्यादेव अभिजने-अभिजायत इत्यभिजनः पुत्रः, तदर्थसम्पादने भाव:-अभिप्रायो यस्यास्सा तथा । न समर्थितं-न विचारितम् ॥ १८॥

न सुहृद्भिर्न चामात्यैः मन्त्रयित्वा न नैगमैः ।
मयाऽयमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः ॥ १९॥

 सहसा - द्राक् ॥ १९ ॥

[४] भवितव्यतया नूनं इदं वा व्यसनं महत् ।
कुलस्यास्य विनाशाय प्राप्तं, सूत ! यदृच्छया ॥२०॥

 भवितव्यतया - अवश्यप्रापकदुरदृष्टवशादित्यर्थः । यदृच्छया- परवशतया ॥ २० ॥

[५]सूत ! यद्यस्ति ते किञ्चित् [६] मया तु सुकृतं कृतम् ।
त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम् ॥ २१ ॥


  1. अभिजनः- अभिजात इति पर्यायः । अभिजनभावः-आभिजात्यं-तदनुगुणः भाव:-
    अभिप्रायः यस्यास्सा | तेन च पूर्वं ३५ सर्गे य उक्तः कैकेयीमातृवृत्तान्तः सुमन्त्रेण,
    स स्मार्यते ।
  2. सूत सुमन्त्रितम्-ङ.
  3. स्व-ऋण- अपाकरणे - इति पदविभागः विग्रहे ।
  4. भवितव्यता नाम विधिः, अप्रतीकारा सा । यदृच्छा-शक्यप्रतीकाराऽपि बुद्धिदोषमवकाशं प्राप्य आगच्छन्ती ।
    एवञ्च वाकारोऽपि स्वरस ।
  5. हे सूत ते-तुभ्यं मया किञ्चिदपि सुकृतं - शोभनं
    कर्म उपकारादिकं कृतं यद्यस्ति, यदि त्वं मत्तः किञ्चिदप्युपकारं प्राप्तवान्, तर्हि मां
    तत्प्रतिफलतया रामं नय इति वाऽर्थः ।
  6. मयापि-ङ.